________________
पाण्डवानां विराटनगरे वासः।।
40 श्रीपाण्डव- स्तबकाङ्कितौ। चन्दनालिप्तसर्वाङ्गी, चण्डचण्डातकांशुकौ ॥२०६॥ सह्यविन्ध्याविवाध्यक्षौ, मल्लश्रेणिशिरोमणी । तौ ततोऽविशतां परित्रम् ॥ रङ्ग, वृषकर्पर-वल्लवी ॥२०७॥ (युग्मम्) असौ कृतश्रमो मल्लो, वल्लवस्त्वकृतश्रमः। नियुद्धमनयोर्युक्त, नादधे वसुधाधिपः सर्गः१०॥।॥ २०८ ॥ परं श्यालारिरस्यायं, हन्तव्योऽस्ति यथा तथा । निनिन्द मेदिनीनाथ-मिति सर्वस्तदा जनः ॥ २०९॥
(युग्मम् ) कन्दरादारिणोऽद्रीणां, भुजास्फोटरवास्तयोः । तदा चक्रुर्जगत् सर्व, विद्राणश्रवणेन्द्रियम् ।। २१० ॥ कम्पयन्तौ ॥१८२॥
भुवं पादै-र्ददानौ तलहस्तकान् । ततस्तौ विविधैर्भङ्ग-द्धमुष्टी प्रसर्पतुः ॥२११॥ आश्वेव हन्तुमीशोऽपि, वल्लवो वृषकर्परम् । नेत्रोत्सवाय लोकानां, कंचित् कालं व्यलम्बत ॥ २१२ ।। अभूतां शतशस्तत्र, तयोर्जयपराजयौ । विन्ध्यधात्रीधराटव्यां, मत्तमातङ्गयोरिव ॥ २१३ ।। वल्लवेनाथ कस्मिंश्चि-दानीय निजबन्धने । प्राणप्रयाणदीनास्यो, बभळे वृषकर्परः॥२१४ ॥ वल्लवस्य जये हृष्य-लोककोलाहलो महान् । उदस्थादवनीभर्तुः, सहैव पुलकाङ्कुरैः ॥ २१५ ॥ सहायो विधुरे देवि !, नेदृशः कापि लभ्यते । प्रसीदास्मिंस्तदित्येवं, भूपः कान्तामसान्त्वयत् ।। २१६ ॥
हतं पौरोगवेणाथ, विराटस्य महीशितुः । वृषकर्परमाकर्ण्य, चरेभ्यो धृतराष्ट्रभूः ॥२१७॥ कर्ण-दुःशासनद्रोण-गाङ्गेय-सुबलात्मजान् । प्रद्विष्टमतिरेकत्र, मीलयित्वेत्यमत्रयत् ॥ २१८ ॥ (युग्मम् ) कृत्योपायः पुरा चक्रे, हन्तुं यः पाण्डुनन्दनान् । सोऽयं सुरोचनस्यैव, प्रत्युत प्राभवत् क्षणात् ॥ २१९ ।। छन्नं च वसतः कापि, समामेतां त्रयोदशीम् । पाण्डवान् संप्रति ज्ञातुं, प्राहेषं वृषकर्परम् ॥ २२०॥ शतकोटिकठोराङ्ग, सर्वस्मिन्नवनीतले । विना भीममलं
१ चण्डातकं-वस्त्रविशेषः । २ कष्टे । ३ वर्षम् ।
॥१८२॥
Main Educati
o
nal
For Personal & Private Use Only
nelibrary.org