SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ 35 पुंसयन्निदमभ्यधात् ।। १९२ ॥ देवि ! दुर्नयमप्युच्चै-स्त्वद्दाक्षिण्यादहं सहे । बन्धूनां ते न खल्वन्ये, सहन्ते भुजशालिनः! ॥ १९३ ।। षे तथाऽपि यत्किंचि-तन्मृगाक्षि! करोम्यहम् । वल्लवोऽयं परं सर्व, सैन्यं हन्यात् खलीकृतः ।।१९४।। तस्यान्यस्तु वधोपायः, संप्रत्यस्त्येव भामिनि । बुद्ध्यैव हि निहन्यन्ते, दुर्जयाः परिपन्थिनः ॥ १९५॥ आगतो धार्तराष्ट्रस्य, राज्ञो मल्लमतल्लिका । वृषकर्परनामास्ति, पुरेऽस्मिन् हस्तिनापुरात् ॥ १९६ ॥ जितानेकाहबः सर्वान् , स च मल्लानधिक्षिपन् । नाखर्वभुजगण, वल्लवेन सहिष्यते ॥ १९७ ।। ततः शश्वत्कृताभ्यासः, कदाचिदकृतश्रमम् । स एवामुं दुरात्मानं, निहनिष्यति वल्लवम् ॥ १९८ ।। इति पृथ्वीपतिः प्रेम्णा, मृदुभिदुभिः पदैः । सान्त्वयित्वा शनैः प्रेषी-दन्तरन्तःपुरं प्रियाम् ॥ १९९॥ मल्लवर्गतिरस्कार-कारिणं वृषकर्परम् । वल्लवोऽन्येधुराबास्त, नियोद्धं नृपतेः पुरः ॥२००॥ ततोऽक्षवाटमृक्षेश-बलक्षसिकताचितम् । भूपतिः कारयांचक्रे, तन्नियुद्धकुतूहली ॥ २०१॥ इमं च परितो मश्चान् , सुरेन्द्रसदनोपमान् । धराधीशोऽधिरोहाय, राजन्यानामकारयत् ॥ २०२ ॥ दिव्येऽन्यस्मिस्ततो मञ्चे, रत्नमण्डपिकातले । मणिसिंहासनेऽभ्येत्य, भूमीपतिरुपाविशत् ॥ २०३ ॥ ततो निदेशमासाद्य, विराटवसुधाभुजः । सर्वेऽप्यारुरुहुर्मश्चान् , सामन्ताः सपरिच्छदाः ॥ २०४ ॥ यद्यप्यरिजयं भीमे, न ते संशेरते क्वचित् । आययुस्तदपि त्रस्त-मनसो धर्मजादयः॥२०५॥ स्थेयांसौ बिभ्रतावंसौ, कस्तूरी १ प्रोञ्छयन् । २ श्रेष्ठमल्लः । ३ मल्लयुद्धस्थानम् । ४ ऋभेशश्चन्द्रः, तद्वत् वलक्षा-उज्वला: सिकताः, ताभिः चितं-व्या - तम् । ५ संशयं चक्रुः । ६ अतिस्थिरौ । Jain Education Intematonal For Personal & Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy