________________
श्री पाण्डववरित्रम् ॥
सर्गः १० ॥
॥१८१ ॥
38
रक्षत रक्षत । एतैश्चितानले क्षेप्तुं नीयमानां दुरात्मभिः || १७६ ॥ इत्यस्याः कृपणां वाणी - माकर्ण्य पवनात्मजः । क्रोधाद्दूरोच्छलत्फाल, धावति स्म महानसात् ॥ १७७॥ सोऽब्रवीत्तान् किमेतां भो !, बलादाक्रपथ स्त्रियम् । अस्याः कुत्रापि किं नाम, कश्चिदस्त्येव न प्रभुः १ ॥ १७८ ॥ तेऽप्यूचुर्वल्लवैतस्य मृत्यवे सोदरस्य नः । इयमेवाभवत् कोsपि, हन्ता तु ज्ञायते न हि || १७९ ।। यं निहत्य बलाद्वैर - मात्मनः शमयामहे । चितामध्ये निधास्याम - स्तदिमामेव पुंश्चलीम् ॥ १८० ॥ भीमभ्यधाद्यधादेव-मन्यायं वः सहोदरः । रिरंसुः परवामाक्षीं, तत्फलं चाप्यवाप्तवान् ॥ १८९ ॥ किं नामाविभ्यतो यूयं, स्त्रीहत्यापातकादपि ? | द्वैतीयीकं कुरुध्वेऽमुं (दो), लप्स्यध्येऽस्य न किं फलम् ? ।। १८२ ॥ ज्ञातेययंत्रितो बचे नृपोऽन्यायं सहिष्यते । नोदेष्यति शिरःशूलं, किमन्यस्यापि कस्यचित् ? ।। १८३ ॥ तेऽथाभ्यधुः क्रुधा शक्ति - यस्यास्ति भुजदण्डयोः । इमामवतु सोऽस्माभिः, क्षिप्यमाणां चितानले ॥ १८४ ॥ ततस्तान्निकटं भीमः, कमप्युत्पाट्य शाखिनम् । कीचकस्यावधीद्रन्धूञ्, शतमप्येकहेलया ॥ १८५ ॥ बल्लवेन हताः पेतुः सुदेष्णान्धवो भुवि । जघ्निरे साधु दुर्वृत्ता, इत्युदस्थात्तु लोकवाक् ॥ १८६ ॥ स्वस्थानं मालिनीं प्रेष्य, हतारातिमतङ्गजः । गुहामित्र हरिभमो, ययौ निर्भर्महानसम् ।। १८७ ।।
ततो बन्धुबधक्रोध-स्फुरदोष्ठभयंकरा । सुदेष्णा भूपमभ्येत्य भावे साश्रुलोचना || १८८ || आर्यपुत्र ! तवायं मे, प्रसादोऽपि विडम्बना । हन्यन्ते बान्धवा यस्याः पश्य कर्मकरैरपि ॥ १८९ ।। तदेकः कीचकाराति-स्तावन्न ज्ञायते क्वचित् । बल्लवस्त्वयमस्त्येव, पापस्तद्वन्धुघातकः ॥ १९० ॥ सैन्यैः समस्तैरप्यद्य, न चेदेनं हनिष्यसि । नूनमात्मानमुद्रध्य, ततस्त्यक्ष्यामि जीवितम् ॥ १९१ ।। राजाऽथ सान्त्वयन् वाक्यैः कोमलैः कोमलैः प्रियाम् । पाणिनोदणी नेत्रे,
Jain Educational
For Personal & Private Use Only
77
पाण्डवानां विराटनगरे
वासः ॥
॥ १८१ ॥
jainelibrary.org