________________
राजशेखरकृतन्यायकन्दलिपञ्जिकायां लिखितमस्तीति (जैन साहित्य इतिहास पृ. ३८९) इत्यादि ।
पूज्याश्चेमे कोटिकाख्यगणस्य मध्यमानाम्म्यां शाखायां श्रीप्रश्नवाहनकुले श्रीहर्षपुरीयगच्छे श्रीअभवदेवसूरिपट्टपरंपरायां | समभवन्निति ग्रन्थस्यास्य प्रशस्तौ स्पष्टं लिखितमस्ति, परंतु गृहस्थाश्रमे तेषां का जन्मभूमिः ! को मातापितरौ ! कदा जन्म ! कदा दीक्षाग्रहणम् ! इत्यादिजिज्ञासायामपि किमपि साधनं न मिलितमिति न किमप्यत्र लिख्यते ।
ग्रन्थस्यास्य मुद्रापणे भावपुरस्थसंघसत्कज्ञानभाण्डागारात् पुराणं हस्तलिखितं प्रतित्रयं मिलितमतस्तद्दातॄणां महाशयानां शा. कुंवरजी-आणंदजीतिनामधेयानामत्र महोपकारं मन्ये ।।
ग्रन्थस्यास्यातिगभीरशब्दार्था-लंकारादेः शुद्धिविषये क्षयोपशमानुसारेण सर्वशक्त्या मया कृतेऽपि प्रयत्नेऽल्पज्ञत्व-दृष्टिदोष-मुद्रा| यन्त्र दोषादिना केनापि कारणेन स्खलनास्थानानि दृष्टवता विद्वद्वर्गेण कृपालुना कृपां कृत्वा संशोधनीयानीति प्रार्थये इति शम् ॥
ली. संशोधकः ॥
Jain Education
a
l
For Personal & Private Use Only
www.sainelibrary.org