________________
पीपाण्डवपरित्रम् ।।
पूर्व प्रकारनिस्टास्तावना
प्रस्तावना
विदांकुर्वन्तु काव्यरसिका धर्मज्ञाः सजनाः । इह किल चातुर्गतिकदुःखवारिभृतं संसाराब्धि तितीर्युभिर्भव्यैः श्रीतीर्थकृन्निर्मितसद्धर्मतरण्ड एवाश्रयणीयः तच्चालयितारश्च सद्गुरुनाविकाः सेवनीयाः, यतस्ते द्रव्यानुयोग-चरणकरणानुयोग-गणितानुयोग-कथानुयोगतरण्डकाष्ठैः( पादुकाभिः) दुःखवारीणि निरस्य | पारं प्रापयितारः सन्ति। तेष्विमे श्रीनरचंद्रसूरिगुरवो देवप्रभसूरयः कथानुयोगद्वारा भव्योपकारिण इदं महाकाव्यं गुरुवराणां श्रीदेवा- | नन्दसूरीणामादेशात् षष्ठोङ्गोपनिषद्द्वाताधर्मकथा-त्रिषष्ठिशलाकापुरुषचरित्राद्यवलोक्याष्टादशसर्गात्मकमष्टसहस्रश्लोकमितं पाण्डव
चरित्रनामकं सं. १२७० संवत्सरे रचितवन्तः । एतच्च श्रीयशोभद्रसूरि-नरचन्द्रमूरिभ्यां संशोधितम् । | पूज्यश्चामीभिः श्रीदेवप्रभसूरिभिर्धर्मसारशास्त्रापरनामकमृगावतीचरित्रं मुरारिकृतानघराघवोपरि अनर्घराघवकाव्यादर्श च सार्धसप्तसहस्रश्लोकमितं ग्रथितमिति
"तत्क्रमिको देवप्रभ-मूरिः किल पाण्डवायनचरित्रम् ।
श्रीधर्मसारशास्त्रं च, निर्ममे सुकविकुलतिलकः" ॥ १ दृश्यतामत्रवाष्टादशे सर्गे लोकः २८० ।
Jain Education Intematonal
For Personal & Private Use Only
www.jainelibrary.org