________________
36
पीपाण्डवचरित्रम् ॥ सर्गः१०॥ ॥१८॥
पाण्डवानां विराटनगरे वासः॥
निययौ निभृतन्यस्त-पदं साऽपि महानसात् ॥ १४६॥ | अप्सरोजित्वराकल्प-शिल्पेनाधिकशालिनी । आकृषन्ती विशेषेण, कामिनीनामपीक्षणे ।। १४७।। द्रावयन्ती मनः काम,
कृष्णा लीलावलोकितैः । कीचकाय प्रगे तस्थे, राजवेश्मप्रवेशने ॥ १४८ ॥ (युग्मम् ।) तां प्रेक्ष्य पदमप्येकं, जातस्तम्भः | स नाचलत् । तत्पृष्ठचरणाघात-पातकेनेव यत्रितः ।। १४९ ॥ स्वेदोदबिन्दुसंदोहै-स्तस्य दन्तुरितं वपुः । द्रौपदीस्पर्शपापेन, जातस्फोटमिवाभवत् ॥ १५० ॥ तद्वपुर्बद्धरोमाञ्चं, नरकंक्रोडभाविभिः। सर्व विद्धमिहैवाभृ-दयःसूचीचयरिव ॥ १५१ ।। कृष्णाऽपि तं तथैक्षिष्ट, स्निग्धस्निग्धैरिवेक्षणैः। स प्रकामं यथा मेने, तामात्मन्यनुरागिणीम् ॥ १५२ ॥ शनैः शनैः समभ्येत्य, दीनैर्दीनैर्वचःक्रमैः । सोऽथ तामर्थयांचक्रे, तद्विरं साऽप्यमन्यत ॥ १५३ ।। तमभ्यधत्त सैरंध्री, निशीथे नाट्यवेश्मनि । स्थास्याम्यहमुपागम्य, तत्रागच्छेद्भवानपि ।। १५४ !! इति संकेतमादाय, द्रौपद्यन्तःपुरं ययौ । कीचकोऽप्युल्लसत्प्रीतिरन्तिकं नृपतेरगात् ॥ १५५ ॥
देवताराधनस्तैस्तैः, कीचकस्याभिलष्यतः । प्रियः सुहृदिवागच्छत् , कथंचिदिवसात्ययः ॥ १५६ ॥ भाविनीमापदं पश्यन् , सुदेष्णासोदरस्य ताम् । शङ्के पङ्कजिनीनाथ-स्तदुःखादस्तमाययौ ॥ १५७ ॥ यथा यथाऽतिपीवानो, बभूवुस्तिमिरोर्मयः। पीवतामाप हपोऽपि, कीचकस्य तथा तथा ॥ १५८ ॥ अथ बिभ्रत्यहंकार-मन्धकारे वृकोदरः। निर्माय मालिनीवेष-मविशन्नाट्यवेश्मनि ॥ १५९ ।। कीचकोऽपि तमस्काण्ड-ताण्डवाडम्बरोल्वणे । वासयन्नङ्गसौरभ्य-दिशस्तस्मि
१ आकल्पः-नेपथ्यम् । २ नरकमध्ये भाविभिः । ३ अतिपुष्टाः । ४ रोल्वणः' प्रत्यन्तर ।
॥१८॥
Jain Educ
a
tional
For Personal & Private Use Only
14ainelibrary.ore