________________
मगात पुनः ॥ १३०॥ कीचकस्यानये तस्मि-निर्माय गजमीलिकाम् । पृथिवीपतिरास्थाना-दुत्थायाभ्यन्तरं ययौ ॥१३१॥
तस्यामेव निशीथिन्या-मविज्ञाताऽथ केनचित । जगाम द्रौपदी मन्द-पादपातं महानसे ।। १३२॥ चरणाङ्गुष्ठमानम्य, याज्ञसेनी शनैः शनैः । तत्र जागरयामास, सुखसुप्तं वृकोदरस् ।।१३३: सोऽब्रवीत् प्रेयसी देवि!, किमणि विमुञ्चसि। दीर्घदीर्घाश्च निश्वासान् , भापसे चातिगद्गदम् ॥ १३४ ॥ साऽप्यूचे पृच्छसि स्वामिन् ! किं नामासंविदानवत् ? । किं न हन्त त्वमद्राक्षीः, कीचकाविनयं मयि ? ।। १३५ ।। भवन्तोऽद्यापि जीवन्त-मात्मानं मन्यते किमु ? । प्रेयसी पश्यतां येषामपरैः परिभृयते ॥१३६॥ शौर्य सत्वमहंकार-श्वण्डिमा भुजदण्डयोः । जगाम सर्वमप्येत-न्मन्ये लक्ष्म्या सहैव वः ॥१३७॥ पक्षिणोऽपि प्रियां वीक्ष्य, संपन्नान्यपराभवाम् । न ह्यलंभूष्णवः सोढुं, किं पुनर्मानशालिनः ? ॥ १३८ ॥ इत्यादिभिः प्रियावाक्य-भत्सितो मरुतः सुतः । ज्वलन्नपत्रपानम्र-मौलिनींचैरवोचत ।। १३९ । कथं दुरात्मनो देवि !, तस्यैतावदहं सहे ? ।
भ्रवः संज्ञा तदाऽय॑स्य, प्रत्यूहाय न चेद्भवेत् ॥ १४० ॥ प्रातस्तु यदि कीनाश-दासतां लम्भये न तम् । कदापि गणये| देवि!, मा म तत्पुरुपेषु माम् ।। १४१ ।। परं कामातुरः स त्वां, प्रातर्भूयोऽपि योक्ष्यते । नारीपु सिद्धये काम-मलक्ष्यं हि
कामिनाम् ॥ १४२ ॥ स च त्वयाऽभियुञ्जानो, माननीयो मनस्विनि !| निहन्तुमनसा मीन-मामिपं हि निधीयते ॥१४३॥ ततः किरीटिनो नाट्य-शालायां शीलशालिनि ! । गृह्णीयास्तेन संकेतं, निशीथसमये निशि ॥ १४४ ॥ त्वदीयेनैव वेषेण, तत्राहं पुरतो गतः । तज्जीवितं हरिष्यामि, निविडालिङ्गनच्छलात् ।। १४५ ॥ इत्यालोच्य रहः कान्तां, विससर्ज वृकोदरः।
१ अज्ञातवत् । २ 'देवी' इति पाठश्चेन् साधु । ३ लज्जाराहित्यम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org