________________
33
पुरेतत्तदानीं मे, हविर्भूतं स्मरानले ॥ १०० ॥ ममात्मनो रसस्येव, तप्तस्य मदनाग्निना । जायेत यद्यवस्थान -मस्या धातोरिवाशया ॥ १०१ ॥ इति संचिन्त्य दीर्णाङ्गः, कीचकः स्मरसायकैः । प्रगल्भवदनां कांचि-हूतीं पीत्तदन्तिके ॥ १०२ || क्षणादभ्येत्य सा तस्याः पुरः कुंपणमभ्यधात् । पतिव्रताव्रतं जाने, भवत्या विश्वविश्रुतम् ॥ १०२ ॥ तत एवास्मि सैरंधि !, त्वदभ्यर्णमुपागता । जानासि कीचकं देव्याः, सुदेष्णायाः सहोदरम् ॥ १०४ ॥ तस्य प्रकाममस्वस्थं, वपुर कुतश्चन । न केनापि प्रकारेण, स्मेराक्षि ! स्वास्थ्यमनुते || १०५ ॥ यदि नाम भवत्पाणिस्पशैः शाम्यति तद्यथा । अनुभावः सतीनां हि सर्वदोषद्विपंतपः ॥ १०६ ॥ वेगात्तदेत्य कल्याणि !, निजस्पर्शसुधारसैः । प्रसीद रतये तस्य त्वादृश्यो हि कृपालवः ॥ १०७ ॥ इति श्रुत्वा वचस्तस्याः, कमनीयाक्षरं बहिः । व्यञ्जयतु दुराकूत-मन्तर्जज्वाल मालिनी ।। १०८ ।। कोपादूचे च रे दूति !, तावकं सविषान्नवत् । मुखे मधुरमादत्ते, शीलप्राणानिदं चचः ॥ १०९ ॥ मृत्यवे कीचको नूनं मत्पाणिस्पर्शमिच्छति । सिंहीकरावमर्शेन, गोमायुः किमु जीवति ? ॥ ११० ॥ यदि स्वरूपमप्येत-जानीयुः पतयो मम । तदा न ते न तस्यापि, जीवितव्यकथा क्वचित् ॥ १११ ॥ इत्याक्रुश्य भृशं दूती, मालि न्या गलैहस्तिता । गत्वा म्लानमुखी सर्वं, कीचकस्य न्यवेदयत् ॥ ११२ ॥ उपायैर्विविधैरन्यैरपि दानादिभिर्यदा । प्रयुक्तैरहते रन्तुं पाञ्चाली न कथंचन ॥ ११३ ॥ तदाऽन्येद्युर्बलाद्वाहौ रहः क्वचन कीचकः । करेण धारयामास, तां मृणालीमिव द्विपः ॥ ११४ ॥ तत्करस्पर्शमासाद्य, ज्वलदङ्गारसोदरम् । तदैव ताम्रतां भेजे, दारुवन्मालिनीमुखम् ॥ ११५ ॥ १ मन्दं दीनं वा । २ निष्कासिता ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org