SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ 31 भद्र ! कोऽसि ? कुतश्चासि, स्थानादागतवानिह ? ॥ ७० ॥ जगाद सहदेवोऽथ, पाण्डवेयस्य भूभुजः । गणशो गोकुलान्यासन्, प्रत्येकं लक्षसंख्यया ॥ ७१ ॥ स तेषां ग्रन्थिकं नाम, संख्याकारं न्ययुङ्क्त माम् । सर्वेषां बलवानां च राजनेतारमातनोत् ।। ७२ ।। गर्भाधाने गवां कालमुपायमपि वेदयहम् । शरीरलक्षण - व्याधि - चिकित्सासु तु का कथा ? ॥ ७३ ॥ इत्याकर्ण्य गिरं माद्य - प्रमोदविवशाशयः । सहदेवं महीदेवो, गोकुलाधिपतिं व्यधात् ।। ७४ ।। अथ वैदेशिकौचित्य-कल्पिताकल्पशालिनी । रूप-लावण्य - सौभाग्यै-विस्मारितरतिस्मया ।। ७५ ।। महादेव्याः सुदेष्णायाः, सद्माभ्यर्णे कदाचन । विहरन्ती भुजिष्याभि-देहशे द्रुपदात्मजा ॥ ७६ ॥ दृष्ट्वा सविस्मयास्ताच, सुदेष्णायै न्यवेदयन् । कुतूहलवती साऽपि तामेताभिरजूहवत् ॥ ७७ ॥ उपवेश्य परप्रीत्या, तां महत्यासने क्वचित् । नरेन्द्रपत्नी ताम्बूलदानपूर्वमभाषत ॥ ७८ ॥ शुभे तवायमाकारो, न क्ष्मावस्थानमर्हति । किं पुनः पादचारेण, विदेशगमनं क्वचित् ? ॥ ७९ ॥ ततः कथय काऽसि त्वं, पत्नी कस्यापि भूभुजः । कुतश्चेयमवस्था ते विषयान्तरदर्शनी १ ॥ ८० ॥ स्त्रपाथ पाण्डुराजस्य, स्मितपूर्वमभाषत । मालिनी नाम सैरंध्री, दास्यस्मि न नृपप्रिया ॥ ८१ ॥ मयि प्रमाणमत्युच्चे - द्रौपदी धृतपूर्विणी । मुकुन्दमहिषी दधे, सत्यभामाऽपि संमदम् ॥ ८२ ॥ प्रिया विराट भूभर्तुः पाञ्चालीं पुनरत्रवीत् । हन्ताहमपि सैरंधि ! ब्रूपे यत्तत्करोमि ते ॥ ८३ ॥ किं तु त्वां यदि वीक्षेत, कदाचित् क्षितिवासवः । प्रियामपि तदानीं मां, मनसा न हि संस्पृशेत् ॥ ८४ ॥ भूयोऽप्युवाच पाञ्चाली, कृतं ते शङ्कयाऽनया । प्रच्छन्नाः सन्ति यत् पञ्च गन्धर्वाः पतयो मम ॥ ८५ ॥ १ गोपानाम् । २ दासीभिः । ३ परगृहनिवासिनी कलावती स्त्री । ४ कृष्णपट्टराज्ञी । For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy