SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ भीपाण्डव चरित्रम् || सर्गः १० ॥ ७ ॥ १७७॥ 30 वाऽसि पुमानेव, कुतः स्त्रीवेषधारिता ? ॥ ५४ ॥ आकृतिस्ते पुनः सेयं स्त्रीपुंसव्यतिवर्तिनी । इहागत्य च किं स्थानं, विहितं विरहातुरम् ? ।। ५५ ।। कपिकेतुरभाषिष्ट, नास्मि नारी न वा पुमान् । अहं वृहन्नटो नाम, किं तु पण्डोऽस्मि भूपते ! ॥ ५६ ॥ योषिद्वेषं वहन्नेव - मवन्यां विहराम्यहम् । नाट्याचार्यस्तपः सूनो -रभूवं राज्यभूपणम् ॥ ५७ ॥ तूर्यत्रयरहस्याना - महं वा खलु कोविदः । देवी विश्वत्रयाराध्या, सा वा वाचामधीश्वरी ॥ ५८ ॥ हेमस्तोमैस्ततस्तैस्तै-रभिनन्द्य बृहन्नटम् | भूमीन्दुरुत्तरां पुत्री - मध्यापयितुमार्पयत् ।। ५९ ।। ततस्तूर्यत्रयाभ्यास - हेतोः पुत्र्याः क्षितीश्वरः । उत्तरेण निजं वेश्म, नाट्यशालामचीकरत् ॥ ६० ॥ हरिदश्वरथाश्वाभ-मन्येद्युरवनीभुजः । हयं कारयतचित्रं, वाह्याल्यां चंक्रमक्रमम् ॥ ६१ ॥ मांसलांसस्थलो बद्ध - मौलिः प्रावारवाससा । निर्लोमाङ्घ्रिः कशापाणि-दृढं परिकरं वहन् || ६२ || नकुलः कुलशैलाभ - मूर्तिरागादृशोः पथि । वेण चाह्वयत् स्मेर - विस्मयस्तं महीपतिः ॥ ६३ ॥ (त्रिभिर्विशेषकम् ) सोऽभ्यधाद्भूभुजा पृष्टस्तपः सूनोर्महीभुजः । सर्वाश्वसाधनाधीश - स्तन्त्रिपालाभिधोऽस्म्यहम् || ६४ || अश्वानां लक्षणं वेद्मि वेद्मि सर्व चिकित्सितम् । देशं वेद्मि वयो वेद्मि वेद्मि वाहनिकाक्रमम् ।। ६५ ।। राजाऽब्रवीत् तव ज्ञान - माकुत्याऽपि निवेद्यते । आर्द्रता हि वदत्यम्भ - स्कुम्भस्य परिपूर्णताम् ॥ ६६ ॥ इत्युदीर्याश्वमारोप्य, परीक्ष्य किल तत्क्षणात् । नेतारं नकुलं चक्रे, निजाश्वीयस्य भूपतिः || ६७ ॥ परिधानपटार्धेन, बद्धकक्षं स्थवीयसीम् । विभ्राणं वैणवीं यष्टिं वृषस्कन्धं महाभुजम् ॥ ६८ ॥ गोत्रजेषु व्रजन्नूवभूतं भूपः परेद्यवि । सहदेवमुदैक्षिष्ट, व्रततीवद्धमूर्धजम् || ६९ || ( युग्मम् ) धरित्रीपतिरामन्त्रय, विस्मयेन तमभ्यधात् । Jain Education International For Personal & Private Use Only पाण्डवानां विराटनगरे वासः ॥ ॥ १७७॥ nelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy