________________
पीपाण्डवचरित्रम् ॥ सर्गः१०॥ ॥१७६॥
पाण्डवानां विराटनगरे वासः॥
तेजांसि, धारयन्तीव मूर्तताम् । आयुधानि न्यधात्तत्र, शमीशाखिनि फाल्गुनः ॥२४॥ मध्येऽद्रिकन्दरं तेऽथ, पञ्च पञ्चानना इव । विराटस्य विशांभर्तु-रन्तनगरमाविशन् ॥ २५ ॥
तिलकान् द्वादशाङ्गेषु, करे कुशपवित्रिकाम् । कलयन्नुपवीताङ्क-तनुधौतसितांशुकः ॥२६॥ गत्वा राजकुलं कश्चि-द्राह्मणस्त्वां दिदृक्षते । इत्यात्मानं तपःसूनु-त्रिणाऽज्ञापयन्नृपम् ॥ २७ ॥ युग्मम् । तथा विज्ञापितो वेत्रि-पुंगवेन विशांपतिः । तं सभामर्घदानादि-पुरःसरमवीविशत् ।। २८ ॥ विलोकयंस्तमायान्त-मिति चान्तरचिन्तयत् । किं स्वयं धर्म एवायं, महीतलमवातरत् ? ॥ २९ ॥ न हि ब्राह्मणमात्रस्य, क्वचिदृष्टेयमाकृतिः। समुद्ररसनामेप, महीं शासितुमर्हति ॥ ३०॥ अभिवाद्य | नमन्मौलि-स्तं वितीर्णाशिष पुरः। प्रीत्या परमया पीठे, विशामीशो न्यबीविशत् ।। ३१ ॥ जगाद च कुतो ब्रह्म-नजिह्मब्रह्म| वार्धिना । आगम्यते त्वया ? को वा, भवान् भुवनपावनः ? ।। ३२ ॥ अथावोचदजातारिः, कङ्को नाम द्विजोऽस्म्यहम् ।
भृमिभर्तुस्तपःसूनोः, प्रियमित्रं पुरोहितः ॥ ३३ ॥ अक्षश्च दीव्यतस्तस्य, सभास्तारोऽस्मि सर्वदा । मदन्यो हि न दक्षोऽभूदक्षद्यूतेऽस्य संसदि ॥ ३४ ॥ मयि ग्रामान्तरे याते, समानीय निजं पुरम् । कुरुभिः कैतवागार-हारितः सोऽखिलां महीम् ॥ ३५ ।। पाण्डवेयास्तदारभ्य, बभूवुर्वनवासिनः । राज्यप्रत्याशया तेषा-मनेषमियतीः समाः ॥ ३६ ।। मायावीति मया राजन् !, श्रितो दुर्योधनो न हि । पाण्डवानामिदानी तु, किंवदन्त्यपि न क्वचित् ॥३७॥ धर्म-न्याय-सदाचार-विवेक| विनयादिभिः । गुणेराकीर्णमेपोऽहं, तद्भवन्तमुपस्थितः ॥ ३८ ॥ अजल्पन्नृपतिः कङ्क!, निःशङ्कोत्रापि पूर्ववत । सुखेन तिष्ठ
१ समुद्रः रसना-कटिमेखला यस्याः ताम् । २ सभासद् । ३ वर्षान् ।
॥१७६॥
For Personal & Private Use Only
Mainelibrary.org