SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रीपाण्डव चरित्रम् ॥ सर्गः १० ॥ ॥ १७५ ॥ 26 सौरभ्यसारघनसारकंणावदातै- लोकंपूणैर्मुनिपतेर्विमलैगुणौयैः । तत्रैव ते विदधतो वदनाधिवासं, द्वित्राण्यहानि मुदिता गमयांवभूवुः ॥ ३८० ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये दुर्योधनमोचन -कृत्योपद्रवनिवर्तनवर्णनो नाम नवमः सर्गः । अथ दशमः सर्गः । अथ द्वैतवनात् पाण्डु–सूनवो देवतागिरा । प्रतस्थिरे गुप्ततमा, विराटनगरं प्रति ||१|| ते मातरं पुरस्कृत्य, मूर्ती नीति- . मिवाध्वनि । व्रजन्तोऽनुगता रेजुः साक्षालक्ष्म्येव कान्तया || २ || नगेन्द्र-नगर-ग्राम- निम्नगा - रामसंकुलाम् । भूयसीं भीमसंचारा-मतिक्रम्य क्रमान्महीम् || ३ || नीलदुद्यानकल्लोलि - सरःश्रेणिमनोरमे । ते विराटमहीभर्तुः, पुरीपरिसरे ययुः ॥ ४ ॥ (युग्मम्) रामणीयकमाराम - सरः पुष्करिणीगतम् । पश्यतां पाण्डुपुत्राणां तत्रोचैर्मुमुदे मनः ॥ ५ ॥ क्वचित् सरसि निनिंद्रनलिनीमालभारिणि । पयःपानादिना तेऽध्व- श्रमव्यपगमं व्यधुः || ६ || तत्तीरे सहकारस्य, नवपल्लवशालिनः । छायायामतिसान्द्रायां, तेऽनुज्येष्ठमुपाविशन् ॥ ७ ॥ १ कणः - सूक्ष्मः, अवदातः - शुद्धः । Jain Educational For Personal & Private Use Only पाण्डवानां विराट नगरं प्रति गमनम् ॥ ॥१७५॥ jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy