________________
25
मासक्षपणपारणे ॥ ३६४ ॥ ( युग्मम् ) तं तपोधनमालोक्य, लोकोत्तरगुणोदयम् । पुनः पल्लवितानन्दा - स्तेऽन्तः स्वान्तमचिन्तयन् ॥ ३६५ ॥ एषणीयमिदं वस्तु, पात्रमेतत्तपोमयम् । तदयं सुकृतप्राप्यः, कौमुदीन्दुसमागमः || ३६६ ॥ क्व कुरङ्गारिसंचार-घोरा कान्तारभूरियम् । पुण्यैरप्यतिदुर्लम्भः क्व चैष मुनिकुञ्जरः ? || ३६७ ॥ ततो रूक्षरटध्वाङ्गशमीमात्रतरौ मंरौ । अकस्मादयमस्माकं ध्रुवं कल्पद्रुसंगमः || ३६८ ॥ इत्युद्दामपरीणाम-शुद्धिनिर्घौतचेतसः । आदाय भाजनान्येते, मुनिमेत्य बभाषिरे ।। ३६९ ।। प्रभो ! सुप्रातरद्यैव, पुण्यैरद्यैव पुष्पितम् । निजैर्यत् पावितं पादै - स्त्वयेदमुटजाङ्गणम् || ३७० ॥ तदिमं शुद्धमाहारं गृहाणानुगृहाण नः । लभ्यतां दैवयोगेन, निर्धनैरपि सेवंधिः || ३७१ ।। द्रव्यादिशुद्धमाहारं, विज्ञायात्यन्तनिःस्पृहः । मुनिरप्याददे ताह-न विराध्यति संयमम् ।। ३७२ ।।
• तदानीं ताडयामासु घुसदो दिवि दुन्दुभिम् । उद्यत्प्रमोदकल्लोला-वेलोत्क्षेपं च चक्रिरे || ३७३ || विहितार्थिजनाधारा, वसुधारा दिवोऽपतत्। पुष्पगन्धाम्बुवृष्टीच पेततुर्वासितक्षिती ।। ३७४ || अवादीदेवता काचित् प्रसन्ना तान्नभः स्थिता । दानस्यास्य प्रभावाद्वः समीपे संपदोऽखिलाः || ३७५ || विराटनगरे किं तु वर्षमेतत्रयोदशम् । नवाभ्यां वेपकर्मभ्यां प्रच्छन्नाः स्थातुमर्हथ ॥ ३७६ ॥ एवमावेद्य सा तेभ्यः, क्षणेनैव तिरोदधे । सुनिश्च स्वर्गिणञ्चैव ययुः सर्वे यथागतम् ।। ३७७ ।। पारणं पाण्डुतनया - स्तेनुः पुण्यमयं पुरा । पश्चादन्नमयं चक्रुः, शरीरस्थितिहेतवे ।। ३७८ || अर्थेनः प्रीणया मासु - स्ते तया वसुधारया । सतां च तोयदानां च सार्वजन्या हि संपदः ॥ ३७९ ॥
१
देशभूमौ । त्यनिधानम् ।
धनवृष्टिः । ४ सर्वजनहिताः ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org