________________
नागराजस्य, गिरं स्वं कर्णपङ्कजम् । वीक्ष्य चासंदिहानाह-मार्यां कुन्तीमवादिषम् ॥ ३३३ ॥ देवि ! कर्णावतंसाब्जमद्याप्येतद्विकस्वरम् । तन्नामी नियतं प्राणै-विमुच्यन्ते सुतास्तव ॥ ३३४ ॥ केवलं दधते दूरं, परीपाकमुपेयुषा । केनाप्यापद्विवर्तेन, ध्रुवं मूर्छालताममी ॥ ३३५ ।। तत्तस्यैव प्रतीकारः, कश्चिदन्तर्विचिन्त्यताम् । एवं वदन्ती मामेत्य, कृपालुः शबरोऽब्रवीत् ॥३३६॥ कृतं ते चिन्तया भद्रे, नृपकण्ठविलम्बिनीम् । रनमालां निधायान्तः, कान्तान् सिञ्च सरोऽम्भसा ॥३३७।। कृत्वा चेतसि तद्वाचं, निपिञ्चामि जलेन वः । युष्मचैतन्यलाभाच्च, फलितं मे मनोरथैः ॥ ३३८ ॥ निष्कारणोपकारी मे, स कुत्र शबरोऽधुना ? । इति कन्दलितानन्दः, पप्रच्छ नृपतिः प्रियाम् ॥३३९॥ कृती सांप्रतमत्रैव, सोऽभूदिति तयोदिते । दृशौ व्यापारयामास, सर्वास्वाशासु पार्थिवः ॥ ३४० ॥ स दूरे शबरस्ताव-न सरस्तन्न तं बटम् । तं भूनभश्चरं लोकं, न चाद्राक्षीनरेश्वरः ।। ३४१ ॥ तपस्यासु व्यवस्यन्त-मात्मानमुटजान्तिके । मुदितः सानुजन्मान-मालोकत स केवलम् ।। ३४२ ॥ पुरुषं च पुरः कंचित् , काश्चनद्युतिविग्रहम् । चलन्माणिक्यताटकं, सोऽपश्यदिव्यमृर्तिकम् ॥ ३४३ ॥
अथासौ विस्मयत्रस्य-दितिकर्तव्यताजडम् । जगाद मेदिनीनाथं, प्रसादविशदाननः ॥ ३४४ ॥ शृणु विश्वंभराधीश !, तदेकमनसा त्वया । योऽयमाराधितो धर्म-स्तस्येयं स्फूर्तिवर्णिका ।। ३४५ ॥ यतः सौधर्मवास्तव्यः, सुरो वासववल्लभः । अहं धर्मावतंसाख्यो, धुयों धार्मिकपालने ।। ३४६ ॥ ज्ञात्वाऽहमवधिज्ञाना-त्तपोनियमशालिनाम् । कृत्योपसर्गमुच्छेत्तुं, रभसादागतोऽस्मि वः ।।३४७॥ उत्पाद्य कृत्रिमा सेना-मेनां हृत्वा च वः प्रियाम् । अपूजयं कशाघात-मिषान्मन्दारदामभिः ॥३४८॥ | सरोऽपि च तदन्येषु, पीयुपप्रतिमोदकम् । युष्मास्त्रहं विपीचक्रे, पुलिन्दश्चाभवं ततः ॥३४९ ॥ सांप्रतं मुक्तभूयिष्ट. भवतामपि ।
Main Educati
o
nal
For Personal & Private Use Only
www.jainelibrary.org