SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ २२ पाण्डववरित्रम् ॥ पर्गः ९॥ कृत्याया उपद्रवः॥ ॥१७३॥ वार्ते, प्रवृत्ते परिदेवितुम् । आकर्णयावः सहसा, तावकिलकिलारवम् ॥ ३१८ ॥ ततो व्यातमुखप्रेङ्ख-दंष्ट्राङ्कुरभयंकराम् । पिङ्गाक्षी पिङ्गचिकुरां, गवलश्यामलाकृतिम् ॥११९॥ आलोकयाव फेत्कारैः, कर्णज्वरकरी भृशम् । कांचिचरितमायान्ती-मन्तरिक्षेण राक्षसीम् ॥३२०|| (युग्मम्) दूरादालोक्य तस्यास्त-माकारमतिभैरवम् । आवाभ्यामतिभीताभ्यां, सेयं कृत्येति निश्चितम् ॥३२१॥ विभाव्याथ तथोद्धान्ते, स पुलिन्दः पितेव नौ । अन्तीय स्वदेहेन, तस्थौ स्नेहार्द्रमानसः॥ ३२२ ।। साऽप्यागत्य मृतान् युष्मान्, वीक्ष्य वैलक्ष्यमागता । अभ्यर्णस्थामभापिष्ट, राक्षसी राक्षसेश्वरी ॥ ३२३ ॥ पिङ्गले पाण्डवानेता-स्मृतानेव निशुम्भितुम् । प्रहिताऽहमहो तेन, ब्राह्मणेन दुरात्मना ।। ३२४ ॥ एतेषां किं नु निश्छमा, मृत्युश्छद्मकृतोऽथवा ? । इत्यासन्नतरीभृय, सम्यग्जानीहि पिङ्गले! ।। ३२५ ॥ तामिमां स्वामिनीवाचं प्रमाणीकृत्य पिङ्गला । युष्मान् पर्यस्य पश्यन्ती, पुलिन्देन न्यगद्यत ॥३२६॥ त्वादृशां मृतकस्पर्शः, पिङ्गले ! नन्वमङ्गलम्। सरस्यमी विषं पीत्वा, मृता एव न संशयः ॥३२७॥ यद्यल्पमपि जीवेयु-रते ते चण्डि ! पाण्डवाः। विपक्षक्षयमाधातुं, प्रभवेयुस्ततो ध्रुवम् ॥ ३२८ ॥ विक्रामन्ति मृतेष्वेव, शृगालीसरमादयः । जीवत्स्वेव महेभेपु, सिंही संरभते पुनः ॥ ३२९ ।। गत्वा हन्तु तमेवासौ, तद्विप्रं विप्रतारकम् । दुष्प्रयुक्तः प्रयोक्तार-मभिचारो हि लुम्पति ॥ ३३० ।। पिङ्गलाव्यपदेशेन, तां गिरं शबरोदिताम् । निशम्य गगनेनैव, ययौ व्यावृत्य राक्षसी ।। ३३१ ॥ युष्माकमन्तिकेऽभ्येत्य, भृयोऽपि सममार्यया । विलापान् कुर्वती तांस्तां-स्तारतारमरोदिपम् ॥ ३३२ ।। स्मृत्वाऽथ १ गवलं-महिषशृङ्गम् । २ मारयितुम् । ३ सरमा-शुनी । ४ मन्त्रप्रयोगः । ॥१७३॥ JainEducation For Personal & Private Use Only sirelibrary ore
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy