SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ १ हि महान् पुंसां, दाराणामप्यरक्षणम् ॥३०१।। अनेन वचसा तस्य, धर्मसूनुः क्रुधा ज्वलन् । पयः पीत्वा जवाद्धावन् , बन्धूनां | सविधेऽपतत् ॥३०२॥ तथा तेषामुपागच्छ-न्मूर्छा काऽप्यतिशायिनी । पञ्चत्वमेव निश्चिक्ये, यथा व्योमचरैरपि ॥ ३०३ ॥ तस्मिन्मू क्षणे तेषा-मारण्याः पशवोऽपि हि । तृणग्रासादिकं सर्व, सर्वेऽपि मुमुचुः शुचा ॥ ३०४ ॥ समं समस्तभूतानां, प्रमोदनवकन्दलैः । किंचित्क्षणान्तरे तेऽथ, नयनान्युदमीलयन् ॥ ३०५॥ ___ कृत्वाऽम्बु नलिनीपत्रे, रत्नमालापवित्रितम् । प्रत्येकं तेऽभिषिश्चन्ती, द्रौपदी ददृशुः पुरः ॥३०६॥ स्ववास पल्लवाग्रेण, वीजयन्ती मुहुर्मुहुः । सिञ्चन्तीं चाश्रुभिः कुन्तीं, ते वीक्षांचक्रिरेऽग्रतः॥ ३०७॥ बाष्पप्लावितपक्ष्मान्तै-नभश्चर-वनेचरैः । ते पश्यन्ति स्म रोदस्यौ, संकीर्णे स्वजनैरिव ॥ ३०८॥ निविष्टास्ते पटान्तेन, प्रमृष्टरजसोऽम्बया । प्रियामप्राक्षुराक्षेपात्, प्रत्याशप्रहितेक्षणाः ॥ ३०९ ॥ तवापहर्ता पापीयान् , स निस्त्रिंशशिरोमणिः । क्व ययौ ? यदिहायासीः, सुमनोमालभारिणी ॥ ३१ ॥ प्रक्षिप्तरत्नमालेन, किं नो नीरेण सिञ्चसि ।। वृत्तान्तमेनमस्माकं, द्रुतमावेदय प्रिये ! ॥३११ ॥ समक्षमेव सर्वेषा-माचख्यौ साऽथ भृभुजे । त्वय्यायाते पयः पातुं, तं नाद्राक्षं न तां चमूम् ।। ३१२॥ किंत्वेकाकिनमात्मान-मपश्यमटवीगतम् । व्यालानां शृण्वती नादा-नभूवं च भयातुरा ॥ ३१३ ॥ त्वमार्यपुत्र! कुत्रासि ?, रक्ष मामिति वादिनी । इतश्चेतश्च पर्याट-मटवीपदवीष्वहम् ।। ३१४ ॥ पञ्चषान् विशिखान् पाणी, दधद्धन्व च जर्जरम् । उपेत्य शबरः कश्चि-न्मामवादीद्दयान्वितः॥३१५॥ परिभ्रमसि शून्येषु, कथं कान्तारवर्त्मसु । भद्रे ! भद्रंकराकाराः,सन्तीह तव वल्लभाः ॥३१६॥ स युष्मान् दर्शयित्वा मे, कुन्तीं चामिहानयत् | अपश्याव मृतप्राया-नावां वः साश्रुलोचने । ३१७ ।। यावदावामती Join Education international For Personal Private Use Only
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy