________________
१
हि महान् पुंसां, दाराणामप्यरक्षणम् ॥३०१।। अनेन वचसा तस्य, धर्मसूनुः क्रुधा ज्वलन् । पयः पीत्वा जवाद्धावन् , बन्धूनां | सविधेऽपतत् ॥३०२॥ तथा तेषामुपागच्छ-न्मूर्छा काऽप्यतिशायिनी । पञ्चत्वमेव निश्चिक्ये, यथा व्योमचरैरपि ॥ ३०३ ॥ तस्मिन्मू क्षणे तेषा-मारण्याः पशवोऽपि हि । तृणग्रासादिकं सर्व, सर्वेऽपि मुमुचुः शुचा ॥ ३०४ ॥ समं समस्तभूतानां, प्रमोदनवकन्दलैः । किंचित्क्षणान्तरे तेऽथ, नयनान्युदमीलयन् ॥ ३०५॥ ___ कृत्वाऽम्बु नलिनीपत्रे, रत्नमालापवित्रितम् । प्रत्येकं तेऽभिषिश्चन्ती, द्रौपदी ददृशुः पुरः ॥३०६॥ स्ववास पल्लवाग्रेण, वीजयन्ती मुहुर्मुहुः । सिञ्चन्तीं चाश्रुभिः कुन्तीं, ते वीक्षांचक्रिरेऽग्रतः॥ ३०७॥ बाष्पप्लावितपक्ष्मान्तै-नभश्चर-वनेचरैः । ते पश्यन्ति स्म रोदस्यौ, संकीर्णे स्वजनैरिव ॥ ३०८॥ निविष्टास्ते पटान्तेन, प्रमृष्टरजसोऽम्बया । प्रियामप्राक्षुराक्षेपात्, प्रत्याशप्रहितेक्षणाः ॥ ३०९ ॥ तवापहर्ता पापीयान् , स निस्त्रिंशशिरोमणिः । क्व ययौ ? यदिहायासीः, सुमनोमालभारिणी ॥ ३१ ॥ प्रक्षिप्तरत्नमालेन, किं नो नीरेण सिञ्चसि ।। वृत्तान्तमेनमस्माकं, द्रुतमावेदय प्रिये ! ॥३११ ॥ समक्षमेव सर्वेषा-माचख्यौ साऽथ भृभुजे । त्वय्यायाते पयः पातुं, तं नाद्राक्षं न तां चमूम् ।। ३१२॥ किंत्वेकाकिनमात्मान-मपश्यमटवीगतम् । व्यालानां शृण्वती नादा-नभूवं च भयातुरा ॥ ३१३ ॥ त्वमार्यपुत्र! कुत्रासि ?, रक्ष मामिति वादिनी । इतश्चेतश्च पर्याट-मटवीपदवीष्वहम् ।। ३१४ ॥ पञ्चषान् विशिखान् पाणी, दधद्धन्व च जर्जरम् । उपेत्य शबरः कश्चि-न्मामवादीद्दयान्वितः॥३१५॥ परिभ्रमसि शून्येषु, कथं कान्तारवर्त्मसु । भद्रे ! भद्रंकराकाराः,सन्तीह तव वल्लभाः ॥३१६॥ स युष्मान् दर्शयित्वा मे, कुन्तीं चामिहानयत् | अपश्याव मृतप्राया-नावां वः साश्रुलोचने । ३१७ ।। यावदावामती
Join Education international
For Personal Private Use Only