________________
पाण्डव
रेत्रम् ॥ : ९ ॥
१७२॥
त्यक्त्वा, किं शेपे निद्रयाऽनया ? | सांप्रतं सांप्रतं किं ते, सदुःखं मामुपेक्षितुम् ? || २८६ ॥ दुर्योधनस्य गदया, नोरुभङ्गस्त्वया कृतः । न च दौःशासनं वक्षः, क्षुण्णं तन्मां किमत्यजः १ ।। २८७ ।। हिडम्बबक किमीराः, कृतान्तातिथयस्त्वया । महाबाहो ! कृता येन, तच्छौण्डीर्यं क ते गतम् १ || २८८ ।। सिंहेनेव त्वया मुक्तो, वनोद्देश इवाधुना । अभूवमहमाक्रम्यो, हा ! मृगैरिव वैरिभिः ।। २८९ ।। हा ! वत्स ! पार्थ ! पार्थक्यं, प्राणैरपि न ते मम । इयं कथमवस्था ते, जीवत्यपि युधिष्ठिरे ? || २९०|| किं पूरयसि वत्स ! त्वं, पिशुनानां मनोरथान् ? । दृढचण्डिमगाण्डीवं यद्दूरं तत्यजे त्वया ॥ २९१ ।। येन मृत्युपरीरम्भं, लम्भितास्तलतालवः । अकाण्ड एव गाण्डीवे, तत्रानास्था कथं तत्र १ ।। २९२ ॥ नाद्यापि विहितं कृष्णा - पराभव निशुम्भनम् । त्वमेवं किमु निद्रासि विस्मृतारातिविक्रमः ? ।। २९३ ॥ इदानीमपि केनापि, हियमाणा सधर्मिणी । मोचनीया त्वयैवेयं तत्किं स्वपिपि निर्भरम् ? ।। २९४ ॥ अभवत् पूर्णदेशीया, वत्स ! द्वादशवत्सरी । प्राप्तोऽस्यम्बुधिमुत्तीर्य, गोष्पदे मञ्जनापदम् ॥ २९५ ॥ राधासुतस्य सफलैः, संजातमुपयाचितैः । यातोऽसि दैवयोगेन, यच्चमेतादृशीं दशाम् ।। २९६ ॥ वत्सौ ! यमौ ! युवां दृष्ट्वा, हृदयं मे विदीर्यते । अक्षतोऽहं गतो मातु-मया वक्ष्यामि किं पुरः १ ।। २९७ ।। एवं विक्लेयमुर्वीशं कश्चिदूचे पुलिन्दकः । भोः ! कापुरुष ! केनापि, प्रेयसी ते विलुप्यते || २९८ || उत्तरीयमपाकृत्य, कशाभिस्ताड्यते भृशम् | आर्यपुत्रार्यपुत्रेति, करुणं साऽपि रोदिति ।। २९९ ।। हेतोः कुतश्चिदेते तु, मूच्छितास्तव बान्धवाः । सरःसमीरणस्पर्शा - दुत्थास्यन्ति स्वयं क्रमात् ॥ ३०० ॥ ततः प्रियतमामाशु शत्रोत्रायस्व सांप्रतम् । कलङ्की १ उचितम् । २ पृथक्त्वम् । ३ निशुम्भनं-नाशः । ४ प्रायः पूर्णा । ५ व्याकुलम् ।
Jain Education International
For Personal & Private Use Only
कृत्याया
उपद्रवः
॥ १७२॥
ww.jainelibrary.org