________________
कियती भुवम् ।। २७० ।। अश्रुमिश्रं वहन्नीरं, कनिष्ठान्तिकमागतः। तार्तीयिकस्तयोरासीत् , सोऽपि मृ.विसंस्थुलः ॥ २७१ ॥ अभ्यधाद्धर्मजो भीम, बान्धवान्वेषणाकृते । प्रहितस्यार्जुनस्यापि, कालो भृयानभृत् कथम् ॥ २७२ ॥ कनिष्ठबन्धुवर्गस्य, निसर्गप्रीतिशालिनः । गत्वा जानीहि वृत्तान्त-मपतृष्णं च मां कुरु ॥ २७३ ॥ इति ज्येष्ठगिरा भीमः, सरस्तीरमुपेयिवान् । अपश्यद्वान्धवान् प्राप्तान , मृत्योर्नेदीयसी दशाम् ।।२७४॥ विललाप च हा वत्साः!, किमिदानीमुपस्थितम् ? । इदं वोऽस्त्येकतो दौस्थ्य-मन्यतः क्लिश्यते गुरुः ।। २७५ ॥ इतश्च हियते कृष्णा, केनाप्यस्मद्विरोधिना । इतश्चैकाकिनी माता, दुःखं तिष्ठति पृष्ठतः ॥ २७६ ॥ न जाने सममस्माभि-हतकस्य विधेरहो । कौतस्कुतमिदं वैर-मेवं दुह्यति येन नः ॥भ २७७ ।। परं पिपासामार्यस्य, प्रतिकृत्याम्बुनाऽमुना । अहं वत्साः! प्रतीकारं, विधास्यामि विधेरपि ॥ २७८ ॥ शुचं कृत्वैवमापीय,पयस्तृष्णाप्रवासकृत् । गृहीत्वा च वजन्नासीत् , तुल्यावस्थः स बन्धुभिः ।। २७९ !! स्थित्वाऽतिमहती वेलां, ततो दध्यौ तपासुतः । विलम्बते स्म भीमोऽपि, कथंकारमनादरः ? ॥ २८० ।। तद्गत्वा निखिलाचार-चतुरांश्चतुरोऽपि तान् । शौण्डीर(रि)मकलासिन्धून् , बन्धूनन्वेषयाम्यहम् ॥ २८१ ॥ इत्यालोच्य शुचाऽऽचान्त-चेताः कुन्तीसुताग्रजः । गतस्तत्रानुजान प्राप्ता-नद्राक्षीत तादृशी दशाम् ॥२८२॥ विलप्य तुमुलं चोचै-रुवाचात्यन्तविह्वलः । वत्सा ! युष्माभिरेकाकी, कथं | त्यक्तोऽस्मि कानने ? ॥२८३ ।। चतुर्भिरपि युष्माभि-वैरिभूधरभेदिभिः । दन्तैत्रिदशदन्तीव, सदैवाहं विजित्वरः ॥ २८४ ॥ बभूवाहमनुल्लङ्घयो, युष्माभिः पार्श्ववर्तिभिः । धराभोगः समर्यादै-श्चतुर्भिः सागरैखि ॥ २८५ ॥ हा ! वत्स ! भीम ! मां
१ समीपस्थाम् । २ अधमस्य ।
FM
www.jainelibrary.org
in Education remational
For Personal & Private Use Only