SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ कत्याया उपद्रवः॥ श्रीपाण्डव चरित्रम् सर्गः९॥ ॥१७॥ यम् ।। २५४ ॥ पथिकाश्वासनाहेतुः, सेतुरेतस्य वामतः । शंसत्यसौ पिपासात-वितीर्णावसरं सरः ।। २५५ ।। अमी वजुलहारीत-जीवंजीवकपिञ्जलाः। एतस्योपरि कूजन्ति, जलवैभववन्दिनः ॥२५६।। एतानि मृगयथानि, निर्यान्ति प्रविशन्ति च । ध्रुवमेतस्य निर्दोष, स्वायं चाचक्षते पयः ॥२५७।। एपोऽपि द्रौपदीदस्यु-विलोक्यास्मानवस्थितान् । यावद्विलम्बमानोऽस्ति, तावदानीयतां पयः॥ २५८ ।। द्विपं प्रोपिततृष्णस्तु, दोष्णोर्यलभरादहम् । कीनाशवेश्म नेष्यामि, प्रत्यानेप्यामि च प्रियाम् ॥ २५९ ॥ इत्युदीर्य तपासूनु-स्तस्मिन् सरसि रंहसा । नकुलं सहदेवं च, प्रेषयामास वारिणे ॥ २६० ॥ तावथ त्वरितं गत्वा, यथेष्टं पपतुः पयः। कृत्वा च पद्मिनीपत्रे, चेलतुः पञ्चपान् क्रमान् ॥ २६१ ।। ततस्तावुच्छलन्मूर्छा-निःसही पेततुर्भुवि । जन्तवो हि विडम्ब्यन्ते, कर्मभिभिन्नमर्मभिः ।। २६२ ।। विलम्बमम्बुनः पश्यन् , पार्थमूचे युधिष्ठिरः। जलाय प्रहितौ वत्स!, वत्सौ चिरयतः कथम् ? ॥ २६३ ॥ जवात्तद्गच्छ वृत्तान्तं, जानीहि च कनीयसोः । तूर्णमानीय पानीयं, मुषाण च तृषां मम ।। २६४ ॥ तडागमथ जंकालो, जगाम च धनंजयः । स्वांसाविव कनीयांसौ, पेतिवाँसौ ददर्श च ॥ २६५ ॥ तावालोक्य तथाऽवस्थौ, पार्थः पृथुलपूत्कृतः । पर्यदेवत हा ! वत्मौ :, केनेमां गमितौ दशाम् ? ।। २६६ ॥ द्रुतमुत्तिष्ठतं वत्सौ , नन्वार्यः खिद्यतेतमाम् । तस्मै तृष्णातुरायैत-दुपढौकयतं पयः ।। २६७ ॥ एतां तूष्णीकतां वत्सौ !, मुक्त्वा कथयतं मम । कृतमत्याहितं केन ?, निगृह्णाम्येप येन तम् ॥ २६८ ॥ यद्वा पिपासामार्यस्य, पूर्व व्यपनयाम्यहम् । ततो विपदमेतां वां, प्रतिकर्तास्मि यत्नतः ।। २६९ ॥ इत्युदीर्यार्जुनः साश्रुः, कणेहत्य पयः पपौ । बन्धुहेतोहीत्वा च, प्रतस्थे १ नष्टतृष्णः । २ शीघ्रगतिः । ३ पतितौ । ४ तृप्तिपर्यन्तम् । ॥१७॥ Jain Educe For Personal & Private Use Only Dainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy