________________
पाण्डव
रित्रम् ॥
र्गः १७ ।।
॥२९८ ।।
300
पाणिना सीरिणा समम् ॥ ३३३ ॥ रामस्तत्र मयाऽप्रच्छि, लब्धं भोज्यमिदं कथम् ? । आयातोऽसि कथं चास्य, दृक्पथे परिपन्थिनः १ ।। ३३४ ॥
रामेणाख्यायि गोविन्द !, कन्दुकाद्भोज्यमद्भुतम् । सुवर्ण कटकक्रीत मानयन्तमिदं पथि ॥ ३३५ ॥ कथंचिद् ज्ञातवृत्तान्तः, कृतान्त इव भीषणः । सैन्योदन्वानरौत्सीन्मा-मच्छदन्तोऽभ्यधादपि ।। ३३६ || ( युग्मम् ) कुत्राहो ! रोहिणीसुनो !, यासि पाण्डवबान्धव ! १ । गृहाणायुधमाधेहि, पुनरायोधने मनः ॥ ३३७|| विमुच्य भोज्यपात्राणि, ततः क्ष्वेडायितोद्धृतः । स्तम्भेन दलयन् वैरि-बलं दृष्टस्त्वयाऽप्यहम् ॥ ३३८ ॥
अथावां विहिताहारौ, ततः प्रचलितौ क्रमात् । उपागाव दुरापाम्बु, कौशाम्बं नाम काननम् ॥ ३३९ ।। पुंनागपादपस्यास्य, छायामायातवानहम् । तृपार्दितः पयःपानं, श्रान्तो राममयाचिपम् ॥ ३४० ॥ सोपद्रवे वनेमुष्मिन् कृष्ण ! मा भूः प्रमद्वरः । आगतो द्रुतमेषोऽहमिति व्याहृत्य मां मुहुः || ३४१ || विनियुज्य च साहाय्ये, ममेह वनदेवताः । इतो जगाम रामोऽम्बु, निर्विलम्बमवेक्षितुम् || ३४२ || ( युग्मम् ) अहं तु प्रावृतं क्षौमे- णाङ्घ्रिमारोप्य जानुनि । अस्वयं श्रमसु प्राप - निद्रोऽत्रैव तरोस्तले || ३४३ ॥ ततो विद्रोऽस्मि कस्माच्चिद्रमात् पादतले त्वया । इयं तत्र जराम्रनो ! कथिता मूलतः कथा || ३४४ || श्रुत्वा विष्णुमुखादेवं, द्वारकादाहवैशसम् । इत्यशोचं चिरं दुःखा - देवोपालम्भपूर्वकम् ॥ ३४५ ॥ दुर्विधेय ! वैधेय !, विधे ! विविधकौतुकाम् । एवंविधां विधायैता मधाक्षीरधुना कथम् ? || ३४६ ॥ दग्धौ हन्त हुताशेन, हा ! मातापितरौ मम । मामकीनाः क्व ते नाम, बन्धवः स्नेहबन्धुराः ९ ।। ३४७ ।। जितवासवसाम्राज्यं, राज्यं हारि
,
Jain Education International
For Personal & Private Use Only
रामकृष्णयोर्हस्तिक
ल्पपुरे
गमनम् ।
ततः कौशा
म्बवने
गमनम् ॥
॥२९८॥
ainelibrary.org