________________
Jain Education
279
कर्मपरीणामः, सूत्रधारो निरर्गलः । प्राणिनो नाट्यपात्राणि, नानानेपथ्यधारिणः ॥ ३९८ ॥ स खलूच्छृङ्खलत्साहः, स्वमतार्पितभूमिकः । हर्ष - शोकादिभिर्भाव-विवर्तैर्नर्तयत्यमून् ।। ३१९ || भवनाट्ये ततोऽनेन, सूत्रधारेण सूत्रिता । संस्था सर्वाऽपि पात्राणां तद्विष्णो ! मा स्म विद्यथाः ॥ ३२० ॥ गन्तव्यं पुनरावाभ्यां पाण्डवेयान्तिकेऽधुना । ते स्मरन्त्युपकारं नो, नापकारं तु जातुचित् ।। ३२१ ॥ अपकारेऽपि सौजन्यं, सुजनो नैव मुञ्चति । जहाति दह्यमानोऽपि, घनसारो न सौरभम् || ३२२ ।।
"
ततः प्रचलितावावां, पाण्डवानां पुरीं प्रति । हस्तिकल्पपुरोद्यान - मागमाव श्रमादितौ || ३२३ || क्षुत्क्षामं वीक्ष्य मां रामो, भोजनानयनेच्छया । वेगात्तस्य पुरस्यान्तः, प्रस्थितोऽभिदधे मया || ३२४ || अच्छदन्ताभिधानोऽत्र, धृतराष्ट्रात्मजो नृपः । स च पाण्डवगृह्येण मया वैरायते भृशम् || ३२५ || अनार्योऽयं किमप्यार्य !, चेद्वैरोचितमाचरेत् । विदधीथास्ततः क्ष्वेडा-मापतेयमहं यथा ।। ३२६ ।। तत् प्रतिश्रुत्य रामेऽथ पुरीमध्यमुपेयुषि । मम क्षणान्तरे क्ष्वेडा, कर्णमूलमुपागमत् ॥ ३२७ ।। ततः क्रोधकरालोऽह - मत्युत्तालमधाविषम् । पिहितांच पदाऽऽहत्य, प्रतोलीमुदघाटयम् ॥ ३२८ ॥ भिन्दन्तमच्छदन्तस्य चतुरङ्गां वरूथिनीम् । अद्राक्षं कुञ्जरालान -स्तम्भपाणिं च सीरिणम् ।। ३२९ ।। पुरीपरिघमादाय, धार्तराष्ट्रमवादिषम् । दुरात्मन्नागमं सोऽहं कौरवान्तकरो हरिः ॥ ३३० ॥ ततः परिघमालोक्य प्रणतो मृत्यु - कातरः । बद्धाञ्जलिरजल्पन्मां, स सुयोधनबान्धवः ।। ३३१ ।। किमाक्रम्यः कुरङ्गाणां, दुःस्थावस्थोऽपि केसरी ? । देव ! स्वसेवकस्यास्य, तदागः क्षम्यतामिदम् || ३३२ ।। तं मुक्त्वाऽथ प्रसादेन, पुनस्तद्वनमागमम् । नानामनोहराहार
For Personal & Private Use Only
elibrary.org