________________
२८१
एवं नाम निरीहत्व-मुरीचक्रे त्वया विभो । यथा पराश्चितं चेतः, शिवानुसरणेऽपि ते ॥ ४६॥ युक्तं यन्नाभवत् किंचित् , समुद्रविजयोऽपि ते । गाम्भीर्यमुन्नतत्वं च, यस्य विश्वातिवर्तिनी(हि) ॥४७॥ स्वामिन् ! राजीमतीत्यागा-ज्ज्ञात्वाऽपि स्वीपराङ्मुखम् । यत्त्वां कासति मोक्षश्री-स्तत्ते सौभाग्यसौरभम् ॥ ४८॥ यद्वाऽहं तव को नाम, सामस्त्येन गुणस्तुतौ । विश्वातिक्रान्त एवासि, ब्रवीमि किमतः परम् १ ॥४९॥ भवारण्यभ्रमिक्लान्त-विश्वविश्रामपादपाः । सन्तु मे भवतः पादाः, कल्याणफलदायिनः ॥ ५० ॥ इत्यभिष्टुत्य साष्टाङ्ग-मानन्दाश्रुकणान् किरन् । श्रीमन्नेमिजिनाधीशं, नमति स्म युधिष्ठिरः ॥५१॥ कदम्बमुकुलस्थूल-रोमाञ्चकलितस्ततः । पितृ-बन्धुजनैः सार्ध, सोऽनुशक्रमुपाविशत् ।। ५२ ।। ____ अथ संसारसंताप-नवकादम्बिनीं विभुः । आरेमे त्रिजगद्दत्त-शर्माणं धर्मदेशनाम् ॥ ५३ ॥ अहो ! किमप्यपारेयं, संसारख्या महाटवी । अनन्तेनापि कालेन, लङ्घन्ते यां न जन्तवः ॥ ५४॥ पूर्णायामपसिद्धान्त-क्षारनीरैरनेकशः। एक एव सुधाकूप-स्तस्यामस्ति सदागमः॥ ५५ ॥ कथंचन कणेहत्य, तस्मिन् पिबति यः पयः । स एव यदि नामास्याः, पारेशिवपुरं व्रजेत् ॥ ५६ ॥ स तु सम्यक्त्वसंज्ञस्य, गिरेरतिदवीयसः । वर्तते क्वापि दुष्प्रापे, गहरे वासनाढये ॥ ५७ ॥ प्रमादा-लस्य-मान्द्यादि-वल्लिव्यूहतिरोहितः। वीक्ष्यते न महाकूपो, मन्दभाग्यैः कदाऽप्यसौ ॥ ५८ ॥ केचिदाप्तोपदेशेन, प्राप्य तं पुण्यशालिनः । तदीयरसमाकण्ठं, स्वादयन्ति सुधोपमम् ।। ५९ ॥ तमिर्गतेन सद्ध्यान-नाना सरलवर्त्मना । कालेनाल्पीयसा मुक्ति-पुरीमासादयन्ति ते ।। ६० ।। किं चाज्ञानादिवृत्तान्तं, तत्राटव्यां विसंकटम् । अतिनेदीय एवास्ति, मिथ्यात्वा| ख्यं महासरः ॥ ६१॥ ककुप्कूलंकषैस्तैस्तै-रज्ञानसलिलोर्मिभिः। हियन्ते सर्वदा तेन, केषां नाम न दृष्टयः १ ॥ ६२ ॥1
For Personal Private Use Only
www.n
ary.org