________________
255
नेमिं ययुर्धाम, शक्र - गोविन्द पाण्डवाः ॥ ३०९ ॥
द्वितीयेऽथ दिने नाथः, संपदा धाम्नि गोकुले । वरदत्तगृहे चक्रे, परमान्नेन पारणम् ।। ३१० ॥ पुष्प-गन्धाम्बु-रत्नानां वर्षं दुन्दुभिताडनम् । चेलोत्क्षेपं च विदधु - स्त्रिदशास्तस्य वेश्मनि ॥ ३११ ॥ ततो विश्वप्रभुर्घातं निर्मातुं घातिकर्मणाम् । विजहार महीहारः, पुर-ग्रामाकुलामिलाम् || ३१२ ॥ द्वारवत्यामथाऽऽयाताः पाण्डवाः सह शार्ङ्गिणा । गतं नाज्ञासिषुः काल-मानन्दैकवशंवदाः ॥ ३१३ ॥
विहृत्य नेमिनाथोऽपि चतुष्पञ्चाशतं दिनान् । उपाजगाम तत्रैव, सहस्राम्रवणे पुनः ॥ ३९४ ॥ तत्राष्टमतपः स्थस्य, वेतसतले प्रभोः । आश्विने दर्शपूर्वाह्ने, चित्राखजनि केवलम् || ३१५ || सद्यः सुरेश्वरास्तस्मिन्नुपेत्याऽऽसनकम्पतः । चक्रुः समवसरणं, वप्रैस्त्रिभिरलंकृतम् || ३१६ || प्राग्द्वारेण प्रविश्याथ, विंशधन्वशतोच्छ्रयम् । तत्र प्रदक्षिणीकृत्य, विधिवचै - त्यपादपम् ॥। ३१७ ॥ तीर्थंकरः सोऽथ नम- स्तीर्थायेत्युक्तिपूर्वकम् । प्राचि सिंहासने प्राची-संमुखः समुपाविशत् ॥ ३१८ ॥ ( युग्मम् ) त्रिषु सिंहासनेष्वन्ये वन्यत्रापि दिशां त्रये । अमरा व्यन्तरा नेतुः, प्रतिरूपाणि चक्रिरे || ३१९ ॥ ततश्चतुर्विधा देवा, देव्यश्च स्वामिसंमुखाः । उपाविशन् यथाभूमि, कुङ्खलीकृतपाणयः ॥ ३२० ॥
तदा रैवतकोद्यान - पालकाश्चक्रपाणये । प्रभोर्ज्ञानोत्सवोदन्तं, वेगादेत्य न्यवेदयन् ॥ ३२९ ॥ कोटीर्द्वादश रूप्यस्य, सार्धास्तेभ्यो ददौ हरिः । उपवाह्येममारुह्य, भक्त्युत्तालश्चचाल च ।। ३२२ ।। समं पित्रा पितृव्यैश्व मातृ-भ्रातृ-सुतैस्तथा ।
१ तीर्थंकरस्य । २ पट्टगजम ।
Jain Education International
For Personal & Private Use Only
nelibrary.org