________________
254
नेमिनार स्य दीयोत्सवः॥
नीलाण्डवा दत्त्वा नेमिकुमारोऽपि, दानं वार्षिकमद्धतम् । भवाब्धियानपात्राय, चारित्रायोत्सुकोऽभवन् ॥ २९४ ॥ एत्य दीक्षापरित्रम् ॥ मिषेकादि, विधाय विधिवत्सुराः । शिविकामुत्तरकुरुं, नाम्नाऽध्यारोपयन् जिनम् ॥ २९५ ॥ शक्रेशानौ जिनेशाग्रे, दधतुसमः१६॥ स्तत्र चामरे । छत्रं सनत्कुमारोऽपि, माहेन्द्रः खड्गमद्भुतम् ।। २९६ ।। ब्रह्मेन्द्रो दर्पणं पूर्ण-कलशं लान्तकेश्वरः । शुक्रेशः
स्वस्तिकं रम्यं, सहस्रारः शरासनम् ।। २९७ ।। श्रीवत्सं प्राणताधीशो, नन्द्यावर्त तथाऽच्युतः। शखाण्यधारयन्नाशु, शेषे॥२८५॥
न्द्राश्चमरादयः ॥ २९८ ॥ समुद्रविजयेनाथ, राम-केशव-पाण्डवैः । देवक्या शिवया कुन्त्या, चानुयातोऽचलजिनः ॥ २९९ ॥ परमङ्गलगीतानि, शिवाद्याः साश्रुलोचनाः। विवाहवञ्जगुर्नाहो!, मोहस्याज्ञा महीयसी ॥ ३० ॥ गृहाभ्यर्णमुपेतस्य, नेमिनाथस्य दर्शनात् । राजीमत्यास्तदा बाढं, पुनर्जागरिताः शुचः ॥ ३०१ ॥ तद्भोजदुहितुर्दुःखं, ज्ञानादपि जनादपि। जानन्नपि जिनो राग-वैरिणा नाभ्यभूयत ॥३०२।। ततो रैवतकोत्तंसे, सहस्राम्रवणे प्रभुः । नरा-मरेन्द्रवाह्यायाः, शिविकाया अवातरत् ॥ ३०३ ॥ प्रतीक्ष्य भूपणश्रेणिं, प्रभोस्तत्र विमुश्चतः । अदादिन्द्रो मुकुन्दाय, योजितोभयपाणये ॥ ३०४ ॥ अथ वर्षत्रिशत्यायुः, पूर्वाद्धे त्वौष्ट्रगे विधौ । सितायां नर्भसः षष्ठयां, कृतषष्ठः शिवात्मजः ॥ ३०५ ॥ स्वयमुत्पाटयामास, मुष्टिभिः पञ्चभिः कचान् । प्रतीयेष हरिस्तांश्च, दुष्यं चांसे प्रभोय॑धात् ॥ ३०६ ॥ (युग्मम् ) केशान् क्षीराम्बुधौ क्षिप्वा, क्षिप्रं शक्रः समेत्य च । न्यषेधत्तुमुलं तस्थौ, स्वामी सामायिके ततः ॥३०७॥ मनःपर्ययसंगं च, ज्ञानं प्रादुरभूत् प्रभोः । सुखमप्राप्तपूर्व च, नारकाणामपि क्षणम् ॥ ३०८ ॥ अनुप्राब्राजिषुर्नेमि, सहस्रं वसुधाधिपाः। नत्वा
१ चित्रानक्षत्रगते चन्द्रे । २ श्रावणस्य । ३ जग्राह ।
॥२८५
in Educ
a
tiana
For Personal & Private Use Only
linelibrary.org