________________
253
रत्नमये स्वामिन्!, कुण्डले मे विडम्बना । न ये रहसि सोल्लुण्ठे, लुलिते त्वत्कपोलयोः ।। २७९ ॥ एषा संप्रति दुःखाय मे खला मेखला खलु । नैव या रहसि स्पृष्टा, पाणिना प्रणयात्त्वया ॥ २८० ॥ एतौ बहुघुती बाह्वोर्मम रत्नाङ्गदौ गदौ । निर्ममतुराश्लेषे न यौ ते कण्ठकन्दले || २८१ ।। इति नेमिं प्रति प्रेम्णा, व्याहरन्ती मुहुर्मुहुः । तत्याज सर्वमार्कल्पजातं राजीमती तदा ।। २८२ ।। मुहुलुलोठ भूपीठे, वक्षोऽभीक्ष्णमताडयत् । चक्रन्द पुनरुक्तं च साऽथ नेमिवियोगिनी ॥ २८३ ॥ इत्थं विसंस्धुलास्तास्ताः प्राणेशविरहोचिताः । सर्वतः कुर्वतीं चेष्टाः सख्यस्तामेवमभ्यधुः ॥ २८४ ॥ सखि ! प्रक्षीणदाक्षिण्ये, नीरसेऽस्मिन्नलौकिके । प्रदत्तदेहसंदेहः, स्नेहः कोऽयं वरे तत्र १ ।। २८५ ।। अन्येऽपि सन्ति रूपेण, विक्रमेण क्रमेण च । ख्याताः क्षत्रकुलोत्तंसाः कुमारास्तदनेन किम् ? ।। २८६ ।। कुरु तत् सखि ! मा खेद - मनुरूपेण केनचित् । वरेण योजयिष्यामस्त्वां चन्द्रेणेव रोहिणीम् ॥ २८७ ॥ अन्येन वृतपूर्वाऽपि कन्याऽर्हति वरान्तरम् । केनापि हेतुना यावतस्याः पाणिर्न पीड्यते ॥ २८८ ॥ अथ भोजात्मजा बद्ध - भीमभ्रकुटिरभ्यधात् । सख्यः ! संप्रति वः केय-मविमृश्य वचस्विता ॥ २८९ ॥ दैवतेभ्यः प्रियं नेमि-मनारतमयाचिषम् । सोऽपि पित्रनुरोधेन, मामुद्वोढुं प्रपन्नवान् ।। २९० ॥ सकृच्च कन्या दीयन्ते, ततः कुलकलङ्किनीम् । नेमेरन्यो वरस्तेऽस्तु, वाचमेवं न वः क्षमे ॥ २९९ ॥ नाभूत्तावत् स्मराचार्यो, नेमिः सख्यः ! करोमि किम् १ । भूयोभिः सुकृतैर्भूयाद्वताचार्यः स एव मे ।। २९२ ॥ भूयोऽप्यनल्पजल्पाकीः, प्रतिषिध्य सखीः क्रुधा । प्रतीक्षामास सा दीक्षा - कालमुत्तालमानसा ॥ २९३ ॥
१ रोगौ । २ अलङ्कारसमूहम. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org