________________
नेमिना
पाण्डवबरित्रम् ॥ मिः१६॥
NI कृतो
पित्रादीनां | बोधः॥
॥२८४॥
मूर्च्छन्ति स्म रुदन्ति स्म, खिद्यन्ते स्म च ते भृशम् ।। २६३ ॥ सारथिप्रेरितरथो, मधन मोहवरूथिनीम् । भटश्चारित्रराजस्य, नेमिरागानिकेतनम् ॥ २६४ ॥ ___ततः सारखतादित्य-प्रमुखात्रिदिवौकसः । समयाख्याननिष्णाताः, कुमारान्तिकमायबुः ॥ २६५ ॥ कल्पोऽयमिति ते नेमे-ऑनतोऽपि व्यजिज्ञपन् । सर्वजगजीवहितं, प्रभो! तीथं प्रवर्तय ।। २६६ ॥ सांवत्सरिकदानाय, खामिनोऽथ नरामरैः । स्वर्णोत्करा व्यधीयन्त, द्वारकात्रिकचत्वरे ॥२६७॥ ग्रावर्तत ततो दानं, यावदिच्छमहर्दिवम् । अहो ! लोकोत्तरः कश्चित् , पन्थास्तीर्थकृतामयम् ॥२६८।। कुन्ती दृष्ट्वा शिवादुःखं, निनिन्दागमनं निजम् । राजीमतीमभाग्येति, शुशोच द्रौपदी पुनः ॥ २६९ ॥ नानासांसारिकक्लेश-साक्षात्कारकदर्थिताः । गृहत्यागोन्मुखं नेमि, पाण्डवास्तुष्टुवुर्मुहुः ॥ २७० ॥
प्रत्यावृत्ते वरे तस्मिन् , सानुरागे तपःश्रियाम् । लतेव परशुच्छिन्ना, राजीमत्यपतद्भवि ॥ २७१ ।। सखीशीतोपचारेण, सा पुनः प्राप्य चेतनाम् । विलापांस्तुमुलांश्चक्रे, कृतं हा देव ! किं त्वया ? ॥ २७२ ॥ भोगेभ्यो विमुखी मन्ये, दातुं दुःखमिदं त्वया । दर्शयित्वा वरं नेमि, कृताऽहं भोगसंमुखी ॥ २७३ ॥ प्रागप्येतन्मया ज्ञातं, नायं मे भविता वरः । आगेहति कटुस्तुम्बी, किमु कल्पमहीरुहम् ? ॥ २७४ ॥ आत्मैकशरणं स्वामिन् !, मामादृत्यात्यजः कथम् । जहाति जातु नाङ्कस्थं, शशमप्यादृतं शशी ॥ २७५ ॥ भृभुवःस्वस्खयेऽप्येक-स्त्वमासीत् कल्पपादपः । मां तु प्रत्यन्यथाकारं, कथंकारमभूः प्रभो! ? ॥ २७६ ॥ अरण्यमालतीपुष्प-पुष्पसब्रह्मचारिभिः । नाथ ! त्वया विमुक्तायाः, किमेभिर्मम भूषणैः | ॥ २७७ ॥ स्वामिन् ! मनोहरेणापि, हारेण किमनेन मे ? । कन्दर्पकलहे येन, कण्ठे पाशायितं न ते ॥ २७८ ॥ इमे
॥२८॥
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org