SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ 251 स्वं स्वं तु भुज्यते ॥ २४७ ॥ कषाय-विषयाहूतै- रेतैर्हृन्मर्मभेदिभिः । ढौक्यन्ते यानि दुःखानि, तेभ्यो विभ्यत्तपः श्रये ॥ २४८ ॥ निःशेषसदनुष्ठान - ज्यायसस्तपसः खलु । तिमिरारेस्तमांसीव, नश्यन्त्येतानि दूरतः ॥ २४९ ॥ अथ माता शिवादेवी, पर्यश्रुर्नेमिमभ्यधात् । सुकुमारः कथं वत्स !, सोढासि क्लेशमीदृशम् १ ॥ २५० ॥ आतपो - sनातपत्रस्य, वपुर्बाधिष्यते तव । हहा ! शीतं च हेमन्ते, तादृगावरणं विना ॥ २५१ ॥ काननेष्वनगारेण, प्रत्यूहो देहवा - निव । सहनीयस्त्वया वत्स !, वर्षावारिभरः कथम् ? ।। २५२ ।। याञ्चानाराचदुष्प्रेक्षां, परीषहमहाचमूम् । कथं त्वमभिधावन्ती - मसहाय : सहिष्यसे १ ।। २५३ ।। केशहस्तं मया हस्ते निजैः संवर्धितं स्वयम् । कथं भ्रमरसंकाश-मेनमुत्पाटयिष्यसि १ ॥ २५४ ॥ अथोचे जननीं नेमि-र्मातः सत्यमसन्त्यपि । दुःखानि पुत्रभाण्डानां प्रीतिर्वो दर्शयत्यसौ ।। २५५ ॥ aisi यां पराधीनः, सहते दुःखसंहतिम् । तामेतामात्मतत्रश्चेत् किं न मुच्येत बन्धनात् ? ।। २५६ ।। संतोषायत्तचित्तानां, यत्तु संयमिनां सुखम् । लोभलम्पटयोस्तन, मानवेन्द्र - सुरेन्द्रयोः ॥ २५७ ॥ चिन्ताज्वालाद्विनिर्याय, गृहवासदवानलात् । करोत्यसंगतावाप्या-मात्मनिर्वापणं सुधीः ।। २५८ || समतानिम्नगापूरे, दूरमुल्लसिते सति । अभितो विषयग्रामः समग्रोऽपि विनश्यति ॥ २५९ ॥ प्रेयसी समता यस्य शश्वदेवानुकूलिकी । विरमेत् परमानन्द - स्तस्य नैव कदाचन ।। २६० ।। उपकंस्ये प्रियां कर्तुं मातस्तामेव तद्ध्रुवम् । आनन्दैकमयीं ग्रीष्मे, चन्द्रिकां को न सेवते १ ॥ २६९ ॥ इति सर्वेऽप्युपश्रुत्य, वाचोयुक्तिमनुत्तराम् । नेमेर्निःसंगतागृहां, चेतो निश्चिक्यिरेतराम् ।। २६२ ।। ततो मुक्त्वा पुरो मार्ग, शोकावेशविसंस्थुलाः । १ निःसङ्गतैव वापी तस्याम् । २ आरप्स्ये । Jain Education International For Personal & Private Use Only helibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy