________________
243
संवाहनपुरःसरम् । सत्यभामामुखेनैता, वक्तुमारेभिरे पुरः ॥ १२६ ॥ अयं कुमार ! संसारः, सारवान् दारसंग्रहात् ।। श्रीमानपि पुमान् रेणु-रन्तरेण सधर्मिणीम् ॥ १२७ ॥ महेन्द्र-चन्द्रमुख्याना-मिन्द्राणी-रोहिणीमुखाः। पत्यः सन्ति जगत्ख्याताः, कोऽस्ति यो गृहणीं विना ॥ १२८ ॥ तवेदमीटक्सौभाग्य-मिदं रूपमिदं वयः । गुणोदारान् विना दारान् , सर्व जानीहि निष्फलम् ॥ १२९ ॥ धर्मश्चार्थश्च कामश्च, पुरुषार्थास्त्रयोऽप्यमी। पुंसां सधर्मचारिण्या-मेव देव ! व्यवस्थिताः ॥ १३० ॥ पुण्यैकपात्रं पुत्रोऽपि, कलत्रादेव जायते । यः पितुस्त्वमिव ख्याति, त्रिलोक्यां तनुतेतमाम् ॥ १३१ ॥ विषया अपि शब्दाद्याः, प्रकामं हृदयंगमाः। भवन्ति स्त्रीजनेनैव, लवणेन रसा इव ॥ १३२ ॥ किं च पाणिग्रहे लाभ-स्तवायमधिको भवेत् । पितरौ भ्रातरश्चैते, यद्दधत्यमितां मुदम् ॥ १३३ ॥ विवाहोत्साहविषये, तद्देवर ! बरोऽस्तु नः । ध्वजारोपः शिवादेव्या, मनोरथरथेऽस्तु च ॥ १३४ ॥ इति प्रार्थयमानासु, तासु नेमिं जनार्दनः । द्रुतमेत्याभ्यधाद्वन्धो!, कुरु प्रीताः प्रजावतीः ॥ १३५ ॥ अथ तीर्थकरोऽस्मीति, नेमेऽस्मानवमन्यसे । नाभेयाद्यैर्न किं पूर्व, बभूवे | गृहमेधिभिः ॥ १३६ ।।
इति तद्वचसा नीते, कुमारे सुकुमारताम् । आजग्मतुः शिवादेवी-समुद्रविजयौ जवात् ॥ १३७ ॥ अवादीच शिवादेवी, बलिनयनयोस्तव । म्रियेऽहं तब रूपस्य, जीव कल्पशतानि च ॥ १३८ ।। सकलाभिः कलाभिश्च, ज्ञानेन च नयेन च । मत्सुतस्य समो नास्ति, कोऽपि कापि भुवस्तले ॥ १३९ ॥ तात! मातरमात्मीयां, प्रार्थनाभङ्गदुर्मुखीम् । मा कृथाः सर्वथाऽर्थेऽस्मि-स्तद्धृतोऽसि मुजेधुना ॥ १४०॥ इत्युक्त्वा लम्बिते बाहौ, तया नेमिरचिन्तयत् । पश्याहो संकटं
JainEducade
For Personal Private Use Only