________________
पाण्डव
रेत्रम् ॥
श्रीनेमिकुमारस जलक्रीडा॥
१६॥
२७९॥
स णिना । अपराभिः कृताक्षेपै-दृष्टिक्षेपैरयं पुनः॥ ११२ ॥ सुपर्णकेतुसंकेतात् , ताः समं नेमिनं प्रति । उदस्य जलभृ. गाणि, सशृङ्गारं डुबौकिरे ॥ ११३ ॥ जितमारः कुमारोऽपि, प्रत्यैच्छत्तं जलप्लवम् । “दक्षाणामपि दुर्लक्षा-स्तादृशानां प्रवृ. त्तयः" ।। ११४ ॥ नीव्यां नेमिजलाघात-शिथिलायामपि क्षणम् । सखीभिरिव भामायाः, क्षौममद्भिरधार्यत ॥ ११५॥ नेमिनीराहतिक्षोभ-त्रुटत्कञ्चकबन्धना । लजमाना ययौ वापी-तीरदेशाय रुक्मिणी ॥ ११६ ॥ कपोलफलके काचित् , काचिद्वक्षोजकुट्टिमे । आरोहपुलिने काचि-नेमिना सिपिचे जलैः ॥ ११७ ॥ जलकेलिभरे तत्र, तास्तांस्तानथ विभ्रमान् । प्रादुश्चक्रुः कुमारस्य, स्मरजागरहेतवे ।। ११८ ।। यान्त्येव जलसंसर्गा-गुणिनोऽपि विपर्ययम् । मन्ये निवसनस्तासां, तेन स्वार्थोऽप्यमुच्यत ॥ ११९ ॥ तथापि मदनो नेमे-नॊन्मिमील मनागपि । सर्वथा भाविनं तस्मा-दात्मोच्छेदं विदन्निव ॥ १२० ॥
मुदा जाम्बवतीदत्त-करालम्बः शनैः शनैः । उत्ततार कुमारोऽथ, पुष्करिण्यास्तटीभुवि ॥ १२१ ॥ तस्यानुपदमुत्तेरुर्दामोदरकृशोदराः । वमन्त्य इव लावण्यं, चेलथ्योतजलच्छलात् ॥ १२२ ॥ निर्मितानि तुषारांशु-किरणौधैरिव क्षणात् । उपानषीदुकूलानि, नेमेरन्यानि रुक्मिणी ॥ १२३ ।।
भद्रासने निवेश्याथ, नेमेः काचित् प्रजावती। केशानुत्थाप्य कुसुमै-बन्ध कबरी नवाम् ॥ १२४ ॥ काऽपि | स्वर्णसवर्णाङ्गी, स्फुरद्धर्मोदविन्दुकम् । निर्व्याजं वीजयामास, कुमार सिचयाश्चलैः ॥ १२५ ॥ अथ नेमेः क्रमाम्भोज
१ आरोहः-नितम्बः । २ वस्नात् भरतो जलस्य मिषात् । ३ 'नुद्वाप्य' प्रतिद्वय० ।
॥२७९॥
Jan Educati
o
n
For Personal & Private Use Only
nelibrary.org