________________
Jain Education
241
कटाक्षोद्भवैर्नेमे-रुत्तंसं तिलकैर्व्यधात् ॥ ९५ ॥ प्रजावतीनां नाभञ्जि, यदृच्छा काऽपि नेमिना । वशिनामिन्द्रियार्था हि, प्रभवन्ति न किंचन || ९६ ।। इति श्रीनेमिना सार्धं, पौरैरन्तः पुरेण च । चिक्रीड प्रत्यहं क्रीडा-वने विष्णुर्नवे नवे ॥ ९७ ॥ नेमेर्विकारमाधातु-मनीश्वरतयाऽऽत्मनः । लज्जयेवातिचक्राम, वसन्तर्तुरतिद्रुतम् ॥ ९८ ॥
शिरीषमिषतः शस्त्रं, शस्त्राध्यक्ष इवार्पयन् । कामस्य जेतुकामस्य, नेमिं ग्रीष्मस्ततोऽभ्यगात् ।। ९९ ।। कोपादिव निदाघेन, पाटलाक्षेण वीक्षिताः । व्यलीकमूलमप्याशु मानिन्यो मानमत्यजन् ॥ १०० ॥ ग्रीष्मे भीष्मरुचिर्भानु-रभूद्विष्टप्रतापकृत् । यद्वा कालवशान्मित्रे - प्यमित्रत्वमुञ्चति ॥ १०१ ॥ मर्माविद्धर्म संतप्तै- र्विष्णुरन्तः पुरैर्युतः । ययौ रैवतकोद्यान - वापीषु जलकेलये || १०२ ॥ भ्रातुर्जायाभिराकृष्य, समं नेम्यप्यनीयत । स्वकृत्यस्यावरोधेन, सन्तः सर्वानुरोधिनः ॥ १०३ ॥ वेगादुपागते प्रीत्या, तीरं द्वारवतीपतौ । दीर्घिकाऽर्घमिव प्रादा-दम्भोजाश्चितवीचिभिः ॥ १०४ ॥ अम्भोरुहवन भ्राम्यन्मधुव्रतरुतच्छलात् । वापी स्वागतिकीवाभू-दुक्मिणीरमणं प्रति ।। १०५ ।। गोविन्दायोपदीचक्रुः समेत्यारामिकाः पुरः । फुल्लन्मल्लीम यांस्तांस्तान् पुष्पाकल्पाननेकशः ॥ १०६ ॥ तेषु काम्यतमं पूर्व, रुक्मिण्याद्याः प्रिया हरेः । देवरं देवरम्याङ्ग, नेमिनं पर्यधापयन् ॥ १०७ ॥ गन्धलुब्धभ्रमद्भृङ्ग-भयव्याकुलदोलताः । प्रदत्तांस्तानुपेन्द्रेण ततस्ताः पर्यधुः स्वयम् || १०८ || महिषीभिः समं ताभि-नेंमिनं धारयन् करे । केशवोऽवातरद्वाप्यां, लीलया कलहंसवत् ।। १०९ ।। स्मरभोगिफणाकल्प - रत्नशृङ्गकपाणयः । वीतक्री ( वी ) डा जलक्रीडां, तेनिरे ते परस्परम् ॥ ११० ॥ शार्ङ्गिणा शृङ्गिकाम्भोभिर्भामा भृशमताढ्यत । अपरासां तु सर्वासां व्यथाऽभवदरुंतुदा ॥ १११ ॥ आहन्यत स्तनोत्सङ्गे, रुक्मिणी चक्रपा
For Personal & Private Use Only
Melibrary.org