________________
त्यदः । यदा देव्याः शिवादेव्या, गर्भे नेमिरवातरत् ।। ६३ ॥ चतुर्दश महास्वमा-स्तदा ददृशिरे तया । एतैनैमित्तिकैः सई-रित्थं च व्याचचक्षिरे ।। ६४ ॥ शुभैरेभिर्महास्वन-जेता बाह्यान्तरद्विषाम् । चक्री वा धर्मचक्री वा, सुतो देव्या भवि| ष्यति ॥ ६५॥ एतयोदात्तया मूर्त्या, निर्विकारतया तया । कृपालुत्वेन चानेन, मन्ये तत् सैष तीर्थकृत् ॥६६॥
अत्रान्तरेऽजनि व्योम्नि, श्राव्यवर्णा सरस्वती। कृतमेतैरनल्पैर्वां, विकल्पै राम-केशवौ ! ॥ ६७॥ नमिः पूर्व जिनो ह्येवं, संसदि प्रत्यपीपदत् । नेमिस्तीर्थंकरो भावी, द्वाविंशोऽत्रैव भारते ॥ ६८॥ समस्तमपि स वैणं, तृणवचिन्तयिष्यति । राज्यं प्राज्यभुजोष्माऽपि, निरीहो न ग्रहीष्यति ॥ ६९ ।। एतजिनोक्तमाख्याय, तस्यामुपरमस्पृशि । तं तं नेमे गुणग्राम-मश्लाघत हरिर्मुदा ।। ७० ॥
क्षणेन राममापृच्छथ, सोऽन्तःपुरमुपेयिवान् । नेमेश्चरित्रमाचख्यौ, शुद्धान्तसुदृशां पुरः ॥ ७१ ॥ तत्रोकमानसो नेमि, हरिः स्नेहादजूहवत् । ततो रत्नासनासीनः, नाति स्म सह नेमिना ॥ ७२ ॥ शुद्धया गन्धकाषाय्या, समुन्मृज्य वपुस्तयोः। कर्पूरागरुमिश्रेण, चन्दनेन व्यलिप्यत ॥ ७३॥ तैस्तैः स्वादुरसैौज्य-रभुञ्जातामुभावपि । मध्याई चात्यवर्तेतां, संकथामन्थरौ मिथः ॥ ७४ ॥ लीलावनेषु वापीषु, क्रीडाद्रौ सरसीषु च । समं नेमिकुमारेण, रेमे सान्तःपुरो हरिः॥७५।। इति प्रतिदिनं खेलं-स्तैस्तैः केलिभिरच्युतः । न विना नेमिना चक्रे, चक्रभृत् कामपि क्रियाम् ।। ७६ ॥
एकदा सौविदल्लांच, द्वारपालांश्च सर्वतः । निखिलानगरक्षांश्च, समादिक्षदधोक्षजः ॥ ७७ ॥ हो ! नेमिकुमारो मे, प्राणेभ्योऽप्यतिवल्लमः । न कदापि न कुत्रापि, स्खलनीयस्ततो ह्ययम् ॥ ७८ ॥ प्रियाश्च सत्यभामाऽऽद्याः, कैटभाराति
Bain Educati
o
nal
For Personal & Private Use Only
www.jainelibrary.org