________________
पाण्डव
रित्रम् ॥ र्गः १६ ।।
|२७७||
238
तथेति निर्विकारेण, कुमारेण प्रतिश्रुते । तं प्रहृष्टो हरिर्वाह, गृहीत्वा खुरलीं ययौ ।। ४७ ।। उभयाभिमते रामे, सभाभर्तरि तस्थुपि । चाणूरचूरणो मल्ल युद्धाय समनह्यत ॥ ४८ ॥ दृष्ट्वा तथाऽध्यवस्यन्त-मन्तकं केशि-कंमयोः । अस्ताघबलदोस्तम्भो, मिर्गम्भीरमभ्यधात् ॥ ४९ ॥ भरतार्धपते ! युद्ध - मेतन्नीचजनोचितम् । किं वृथा पृथिवीपांशु -पांशुरा क्रियते तनुः ९ ।। ५० ।। तन्मुरारे ! भुजस्तम्भ-वालनेनैव केवलम् । अन्योऽन्यमावयोरस्तु, सारसर्वस्वीक्षणम् ॥ ५१ ॥ इत्यूरीकृत्य गोविन्दः, श्रीवशालानमञ्जुलम् । त्रिखण्डरक्षापरिघं भुजं तिर्यगधारयत् ।। ५२ ।। तं नेमिलनलिनी-तन्तुचालमचालयत् । स्वं च प्रसारयांचक्रे, भूधरेन्द्रनिभं भुजम् ।। ५३ ।। पूर्व करेण सावज्ञं, करीन्द्र इव केशवः । स्थानाच्चालयितुं नेमे - रारेभे भुजवल्लरीम् ॥ ५४ ॥ आकुचय चरणौ पश्चात्, सारसर्वाभिसारतः । ललम्बे नेमिदोः स्तम्भे, कृष्णः कपिरिव द्रुमे ।। ५५ ।। न च नेमिभुजस्तम्भः, सूत्रमात्रमपि क्वचित् । स्थानाच्चचाल किं मेरो-श्रृला चलति वात्यया ? || ५६ || गुणगृह्यो मुदा भ्रातु-रोजोऽतिशयजन्मना । विमुच्य दोलतां नेमि-मालिलिङ्ग हरिर्मुहुः ।। ५७ ।। अवदच्च लसचेताः, श्लाघ्यं बन्धो ! कुलं हि नः । पवित्रे यत्र जातोऽसि त्वमसामान्यविक्रमः ।। ५८ । मामकीनेन दो:स्थाना, यथा रामः प्रमोदते । तथाऽहं तावकीनेन, त्रैलोक्योपरिवर्तिना ।। ५९ ।।
श्लाघामित्यावहन्नेमिं विसृज्याऽऽलयमीयिवान् । मनसो विश्रमारामं रामं पप्रच्छ केशवः ।। ६० ।। दृष्टमार्य ! त्वयाऽऽश्वर्य, नेमिनो मेऽनुजन्मनः १ । योऽमुष्य विक्रमः सोऽस्ति, न शक्रस्य न चक्रिणः ॥ ६१ ॥ तदसौ निजशौर्येण, विश्वविश्वातिशायिना । कथं न साधयत्येतां, षट्खण्डामपि मेदिनीम् १ || ६२ ।। सीरपाणिरथाभाणी मुरारे ! मे स्मर
Jain Education International
For Personal & Private Use Only
श्रीनेमि
कुमारवृत्तान्तः ॥
॥२७७॥
ainelibrary.org