________________
237
नन्दके । स व्यापार्य निचिक्षेप, पाञ्चजन्ये पुनः पुनः ॥ ३१ ॥ तत्पूरणे कृताऽऽकूतो, जिघृक्षुः सोऽक्षिपत् करम् । अहं च हस्तमुद्यम्य, तमेत्यावोचमुच्चकैः ।। ३२ ।। किं कुमार ! प्रयासेन, निष्फलेन तवामुना १ । जायते यो न हासाय स एवोदस्यते भरः || ३३ || आदातुमप्यलंभूष्णु विष्णुरेनं हि नापरः । मुखमारुतपूरेण, दूरे पूरयितुं पुनः ॥ ३४ ॥ मयैवं वार्य - माणोऽपि तं करेण करेणुवत् । नेमिर्भुजोष्मणा चण्डः, पुण्डरीकमिवाग्रहीत् ।। ३५ ।। नमिना स्थापितः सोऽथ, बन्धूकमधुरेऽधरे । रक्तोत्पलदले खेलन्, कलहंस इवाबभौ ॥ ३६ ॥ हेलोत्फुल्लकपोलेन तेनासौ पूरितस्तथा । यथा मूर्च्छामगच्छाम, वयं सर्वेऽपि यामिकाः ॥ ३७ ॥ क्रमादथाप्तचैतन्य-स्त्वदन्तिकमुपागमम् । इत्याख्याय गते तस्मिन्मुदा हरिरचिन्तयत् ।। ३८ ।।
नेमिरस्मत्कुले रम्ये, चक्रवर्त्यदपद्यत । पाञ्चजन्ये मयाssध्माते, नादो नेदृकदाऽप्यभूत् ॥ ३९ ॥ उत्तंसः सर्ववंशानां, हरिवंशः परं भुवि । यस्तेज स्त्रिभिरीदृक्षै-र्नररत्नैरलंकृतः ॥ ४० ॥ इत्यालोचयति प्रीत्या हरौ विश्वमनोहरः । अनुत्सुको निरुत्सेकः, सभामेयाय नेम्यपि ॥ ४१ ॥
सर्वमज्ञातपूर्वी च, प्रकृत्या प्रियबान्धवः । कुमारमनुयुङ्क्ते स्म, प्रश्रयेण नरायणः ॥ ४२ ॥ भ्रातर्विश्वंभराभोग - संभ्रमभ्रमिकारणम् । किंस्विदुर्जस्विनिर्घोषः शङ्खोऽयं पूरितस्त्वया ? ।। ४३ ।। तं शिरः कम्पनेनैव दत्तप्रत्युत्तरं हरिः । प्रत्यक्षमुत्थितस्थूल- पुलकः पुनरब्रवीत् ॥ ४४ ॥ दूरेऽन्यभूभुजो भ्रातः !, शङ्ख ध्माते त्वयाऽधुना । असंस्तुतचरः क्षोभो, रामस्यापि मनस्यभूत् ।। ४५ ।। तदस्मि तत्र दोःस्थाम-विलोकनकुतूहली । मुहर्त्तमानयोरेव नियुद्धं जायतां ततः ॥ ४६ ॥
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org