SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ पाण्डवरित्रम् ।। र्गः१६॥ ॥२६॥ श्रीनेमिकुमारवृत्तान्तः॥ हसन्नाह, नाहमुद्वाहभङ्गुरः । किं त्वद्याप्यनुरूपाऽस्ति, न काऽपि वनिता क्वचित् ॥१५॥ ततोऽवादीच्छिवादेवी, वत्स! ते किमिदं वचः । नन्विहैवास्ति वास्तव्या, रूपनिलोंडिताप्सराः ॥ १६॥ कन्या राजीमतीत्युग्र-सेनभृपालनन्दिनी । गुणैरप्यनुरूपैव, सा तेऽतस्तां विवाहय ॥ १७ ॥ (युग्मम् ) नेमिरूचे न रोचन्ते, मायाचतुरचेतमः। दुःखैकखानयस्तुच्छा-श्छेकेभ्यस्तादृशः स्त्रियः॥ १८ ॥ यास्तु निस्तुषसौहार्दाः, सर्वकामनिकेतनम् । सदानन्दसुधानद्यः, सन्ति मे हृदयंगमाः ॥ १९ ॥ परिणेष्ये समस्तास्ताः, समये युष्मदाज्ञया । कियानप्युचितः काल-स्तत्प्रतीक्ष्यः प्रतीक्ष्यताम् ॥ २० ।। गम्भीरं पितरावेव-मावर्त्य स्फूर्जदाजवौ । सतामाचरणैः कंचित् , कालं नेमिरजीगमत् ॥ २१॥ ___ अन्यदा राजकाकीर्णा-मास्थानीमास्थिते हरौ । उजिहीते स्म निःशेप-ध्वनिपिण्ड इव ध्वनिः ॥ २२ ॥ प्रासादशिखरश्रेणि-संसनस्वनमूञ्छितः । हाकारैर्वृहितः सोऽभू-द्दयावाभूम्युदरंभरिः ॥ २३ ॥ लीलयाऽऽलानमुन्मील्य, महेभाः परित्रभ्रमुः। मन्दुरान्तस्तुरङ्गाश्च, त्रेसुत्रोटितवन्धनाः ॥ २४ ॥ कम्पं द्वारवतीव, चिरमैत्र्यादिवाम्बुधिः। आलिलिङ्ग भृशं क्षोभ-लोलैः कल्लोलबाहुभिः ॥२५॥ पश्यत्येवातिसंभ्रान्ते, रामे रामानुजेऽपि च । निखिलोऽप्युच्छलन्मछः, पपात | परिषजनः ॥ २६ ॥ क्षोभाच्च विस्मयाच्चाथ, चिन्तयामास केशवः । किमसौ स्फूर्जथुः ? किं वा, प्रलयाम्भोधरध्वनिः ? ॥ २७ ॥ किं चासौ पाञ्चजन्यस्य, जन्यव्योमविधो ध्वनिः । तदयुक्तं यतो नाय-मगोविन्देन वाद्यते ।। २८ ॥ इत्यूहव्याकुले कृष्णे, चारुकृष्णाभिधः क्षणात् । एत्याऽऽयुधगृहारक्ष-स्तं प्रणम्य व्यजिज्ञपत् ॥ २९ ॥ देव ! नेमिः कुमाराणां, गणेन परिवारितः । त्वदीये त्वमिवेदानी, विवेशाऽऽयुधवेश्मनि ॥ ३० ॥ दृशं सुदर्शने शाङ्गे, गदायामथ ॥२७६॥ in Education intentional For Personal Private Use Caly
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy