________________
पाण्डवोपरि
1 द्विष्टेन
पाण्डव- परित्रम् ॥ पर्यः ९॥ ॥१६९॥
दुर्योधनेन कारितः कृत्याया उपद्रवः॥
6
मत्रैस्तत्रैश्च शक्तिमान् । निहन्ति सप्तरात्रेण, पाण्डवान् परिपन्थिनः ॥ १९६ ।। तुष्टो दुर्योधनस्तस्मै, स्तम्बेरममनोरमम् । विश्राणयति राज्याध-मिति सोऽस्मिन्नघोषयत् ॥ १९७ ॥ (युग्मम् ) सादरः सोदरोऽभ्येत्य, पुरोचनपुरोधसः । डिण्डिमं| वारयामास क्रूरचेताः सुरोचनः ॥ १९८ ॥ ततः पाटहिकैर्नीतः, स दुर्योधनसंनिधौ । उध्धतः कथयामास, शक्तिव्यतिकरं निजम् ॥ १९९ ॥ आराधिता मया पूर्व-मस्ति कृत्येति राक्षसी । क्रुद्धाऽसौ ग्रसते क्षौणी, पखण्डी किमु पाण्डवान ? ॥२०॥ विधास्यामि तवाभीष्ट-मति तदेव ! सप्तमे । ममापि पाण्डवेया हि, पुरोचनवधाद्विषः ॥ २०१॥ वाचं सुरोचनस्यैता-मवधार्य सुयोधनः । मुर्द प्रसाददानेन, लम्भयामास तं तदा ॥ २०२॥ तेन तेनोपचारेण, तैस्तैश्च जपकमभिः । कृत्याऽऽराधनमाधातुं, सोऽपि गेहमुपाययौ ॥२०३ ॥
अहं चेहागमं भीम ! युष्माकमतिपीडया । आजन्माभ्यस्तदुष्कृत्या, कृत्या साऽत्यन्तदुर्जया । २०४ ॥ अतिरौद्रमनोवृत्ते-रन्यरक्षोविलक्षणम् । तस्या भीष्मत्वमद्वैत, विख्यातं भुवनत्रये ॥२०५॥ सोऽप्युपासितदुर्विद्या-दीपो विप्रः सुरोचनः । अतिकरमनाः कामं, दक्षः क्षुद्रेषु कर्मसु ॥ २०६ ॥ ततः कृत्याप्रणीतो वः, प्राणसंदेहकुद्भुवम् । दुरात्मनो द्विजादस्मादागतोऽसावुपद्रवः ॥२०७ ।। तदस्या विपदः सौम्याः !, प्रतीकाराय धावत । महात्मस्वपि निस्त्रिंशं, पिशुनानां हि मानसम् ।। २०८ ॥
इत्युदीर्य मुनौ तस्मिन् , स्वस्थानमुपजग्मुपि । सौष्ठवाज्येष्ठ मगद-गदापाणिवृकोदरः ॥ २०९ ॥ एतु कृत्या द्रुतं द्रष्टु१ निर्दयम् । २ गते सति ।
॥१६९॥
in Education
a
l
For Personal & Private Use Only