________________
13
वानितः ॥ १८० ॥ विषमैः शृङ्खलाबन्धै- भग्नचंक्रमणक्रमान् । पश्यन्निजानुजान्मार्गे, सोऽन्तर्मन्युमयोऽभवत् ।। १८१ ॥ अथापथ एवाय-मधः शाल्मलिभूरुहः । दुःशासनेन शनकैः समानीयोपवेशितः ॥ १८२ ॥ कर्णोऽपि ज्ञातवृत्तान्तः, स्कन्धावारनिवेशितः । एत्य तूर्णं तदभ्यर्णे, सान्त्वयामास तं शनैः || १८३ ॥ यस्त्वं दुस्तरया देव !, चित्राङ्गदमहापदा । विमुतोऽसि तदस्माकं नास्ति न्यूनं हि किंचन ।। १८४ ॥ धार्तराष्ट्रोऽप्यभाषिष्ट, साक्षेपं शोकसंकुलः । सूतात्मज ! तव भ्रूणं, जीवतो नास्ति किंचन ।। १८५ || अलब्धपूर्वी न्यक्कार - महं त्वस्मि सुयोधनः । ततः प्राणैः किमेभिर्मे, पराभवमलीमसैः || १८६ || चित्राङ्गदेन बद्धोऽस्मि, तदेकमपि दुःसहम् । यन्मोचनं तु पार्थेन, सा हि तस्यापि चूलिका || १८७ ॥ प्रांयोपवेशनं तस्मात्, ममास्तु स्वस्ति वोऽधुना । गत्वा कुरुत सर्वेऽपि सनाथं हस्तिनापुरम् ।। १८८ ।। अथाभ्यधत्त राधेयः, खेदं देव ! दधासि किम् ? । रणे हि बहुशः शूरा, जीयन्ते च जयन्ति च ॥ १८९ ॥ भूमिवासपणक्रीतं तव पार्थेन मोचनम् । पाण्डवेया यदेतेऽपि, वसन्ति भवतः क्षितौ ॥ १९० ॥ भूमिवासाधमर्णा हि, कुलीनाः कुलवेदिनः । राजन्याः शत्रुसंरुद्धं, नेतारमुपकुर्वते || १९१ ॥ न बन्धो न च मोक्षोऽयं, स्मरणीयस्त्वया प्रभो ! । विपदः स्मर्यमाणा हि कुर्युर्दुःखं पदे पदे ॥ १९२ ॥ अथ कर्णे वदत्येवं सर्वे शिविरपार्थिवाः । एत्य संबोध्य चात्यन्तं पुरीं निन्युः सुयोधनम् ॥ १९३ ॥ गतस्तत्र न चिक्रीड, सव्रीडः किं त्वधोमुखः । शयानः शयनीयेऽसौ निनाय दिवसान् बहून् ।। १९४ ॥
अथ जागरितोत्साहः, सचिवैः स्वैर्वचस्त्रिभिः । पटहं दापयामास, हस्तिनापुरवीथिषु ॥ १९५ ॥ यः कश्चिदत्रैः शस्त्रैश्व, १. क्षणं- पराभृतं नम॒यिः । अननम् ।
Jain Education International
For Personal & Private Use Only
www.jainvelibrary.org