________________
१२
जयद्रथवृत्तान्तः॥
तीपाण्डवा ॥ १६५ ॥ भीमसेनो गदास्तम्भ, दम्भोलिमिव दोलयन् । दन्तिनः पातयामास, सर्वतः पर्वतानिव ॥ १६६ ॥ वृकोदरो वरित्रम्॥ दरोद्रेकात् , कांदिशीके द्विपद्धले । शेषं वटमिवारामे, दग्धेऽद्राक्षीजयद्रथम् ।। १६७ ॥ अङ्गमाविश्य पार्थेन, तदैकाकी सर्गः९॥ जयद्रथः । उत्तरीयेण तस्यैव, दस्युबन्धमबध्यत ॥ १६८ ॥ भल्ली किरीटिनस्तूणा-तूर्णमादाय मारुतिः। मुण्डयित्वा
व्यधात् क्रोधात् , तस्य पञ्चशिखं शिरः॥ १६९ ॥ आदाय द्रौपदी बाहौ, तमुवाच वृकोदरः। मातुरादेशतः कुन्त्या, जीव॥१६८॥
न्मुक्तोऽसि याहि रे ।। १७० ॥ पाश्चाल्याः पुरतस्तेन, लम्भितस्तां विडम्बनाम् । लजानम्रमुखोऽवादीद्-भीमसेनं जयद्रथः ॥ १७१ ॥ अरे ! शौण्डीरतागर्व-पीनोदर ! वृकोदर !। निर्विकेक! ममाप्येक-मिदमाकर्ण्यतां वचः ॥ १७२ ।। पश्चानामपि युष्माकं, नियतं मृत्युहेतवः । पञ्चाप्येते शिखाबन्धा, ज्ञायन्तां धूमकेतवः ॥ १७३ ॥ तस्याततायिनो वाक्यमकण्यव निर्भयौ । आगत्य मिलितौ ज्येष्ठ-बन्धोर्भीम-धनंजयौ ॥ १७४ ॥ जयद्रथस्य वृत्तान्तः, सैष तेषां परस्परम् । चिरं सहस्ततालस्य, हास्यस्य स्यान्निबन्धनम् ॥ १७५ ॥
अन्यदा नारदस्तेपा-मेकत्रैव निषेदुषाम् । स्वैरमाजग्मिवांस्तैश्च, सप्रश्रयमुपास्यत ॥ १७६ ।। मुनीन्द्र ! कथयास्माकं, संप्रत्यागम्यते कुतः । इति मारुतिना पृष्टः, सोऽथ प्रमुदितोऽब्रवीत् ॥ १७७ ॥ इति युष्मद्विसृष्टस्य, दुष्टवृत्तेः कुतूहलात् । दुर्योधनस्य वृत्तान्तं, विदित्वाऽहमिहाऽऽगमम् ।।१७८॥ हसन्नाह पुनर्भीमः, कथ्यतां मुनिपुङ्गव ! । इतस्तदा कथं यातः?, कथं चास्ते सुयोधनः ॥ १७९ ॥ पुनर्मुनिरभाषिष्ट, विषण्णो वः स बान्धवः । दत्त्वा दुःशासनस्कन्धे, बाहुं प्रस्थित
१ वज्रम् । २ भयाधिक्यात् । ३ मुमूर्षोः । ४ अनाकर्ण्य ।
।।१६८॥
Jain Education Intematonal
For Personal & Private Use Only
ainelibrary.org