________________
-
॥१५० ।। एवमाभाष्य सत्कृत्य, भूपतिर्वन्यवस्तुभिः। पर्यश्रुः सानुजन्मानं, विससर्ज सुयोधनम् ॥ १५१ । सोऽपि कृष्णमुखस्तूष्णी-मेवास्थाय ययौ ततः । दुरात्मन्युपकारोऽपि, नश्यत्रीरं मराविव ॥ १५२ ॥ चित्राङ्गदं विसृज्याथ, चन्द्रशेखरमप्यनु । तस्थौ तास्ताः कथाः कुर्व-नुर्वीशः सह जिष्णुना ॥१५३।। सानुकम्पा नृपस्यासीत् , तत्र दौर्योधनी कथा। अपरेषां तु बन्धूना-मुपहासपुरःसरा ॥ १५४ ॥
सुखेन तस्थुषां तेषां, गते भूयस्यनेहसि । प्रातः प्रसृमरं व्योम्नि, रजो दृष्टिपथं ययौ ॥१५५ ॥ मायुधवातपादातमुदात्ताश्वीयहास्तिकम् । गच्छद्वैतवनान्तेन, तैरनीकमदृश्यत ॥ १५६ ॥ परिणेतुं पुरो गच्छ-नभ्येत्य सपरिच्छदः। जयद्रथोऽनमत् कुन्ती, दुःशल्यायाः पतिस्तदा ॥ १५७ ।। आनन्द्याशीभिराभि-र्जामातेति सगौरवम् । कियन्तमपि कालं सा, तं तत्रास्थापयन्मुदा ॥ १५८ ॥ दिव्यया रसवत्याऽथ, जिष्णुर्विद्योपहूतया । आतिथ्यं प्रथयांचक्रे, तस्य मातुर्निदेशतः॥ १५९ ॥ जातु क्रीडाविहारेण, पाण्डवेपु गतेषु सः। छलाजहार पाञ्चालीं, जानकीमिव रावणः ॥ १६०॥ द्रुह्यन्ति हि दुरात्मानः, सुतरां सत्कृता अपि । दन्दशूको दशत्येव, पीयूषमपि पायितः॥१६१ ॥ पश्चानामपि भर्तृणां, प्रत्येक नाम गृह्णती । हियमाणा च पाश्चाली, चक्रन्दोच्चैःस्वरं तदा ॥१६२ ।। उपश्रुत्य तमाक्रन्दं, प्रेयस्या दुःश्रवं ततः । अभ्यर्णवर्तिनी भीमा-र्जुनौ क्रोधादधावताम् ।। १६३ ।। आदिशत् तौ तदा कुन्ती, वत्सावेतस्य जीवितम् । रक्षतं यत्नतो मा म, दुःशल्या विधवा भवत् ॥१६४॥ सांयुगीनभुजी वीक्ष्य, तावायान्तौ जयद्रथः । संवर्मितचमू रौद्रो, रणायाभिमुखोऽभवत्
१ काले । २ पदातीनां समूहः पादातम् ।
Jain Education
a
l
For Personal & Private Use Only
www.jainelibrary.org