SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्री पाण्डवचरित्रम् ॥ सर्गः ९ ॥ ॥१६७॥ 10 श्रुत्वा धार्तराष्ट्रो व्यचिन्तयत् । क्षते प्रक्षिपति क्षारं, हा ! धिग्वेधाः पुनःपुनः ॥ १३६ ॥ ततश्चित्राङ्गदोऽवादीत्, कुमार ! स्फारसौरभः । आदेशो मे नरेशस्य, शिरोमाल्यमनारतम् ॥ १३७ ॥ भ्रातरं प्राभृतीकृत्य, धर्मसूनोरिमं पुनः । मुखेन्दुमुच्छलज्योत्स्नं, करिष्याम्यधुना भुवम् ॥ १३८ ॥ विमोच्य बन्धनाद्बन्धु-मानम्य च धनंजयः । चित्राङ्गदसमेतोऽथ, ज्येष्ठान्तिकमुपागमत् ॥ १३९ ॥ विमानकिङ्किणीकाण - श्रवणेनोन्मुखीकृतैः । नभस्यदृश्यताऽऽगच्छन्, बन्धुभिः स विकस्वरैः ॥ १४० ॥ नयनैः स्नेहकलोल - निर्निमेषैरुदैक्ष्यत । कुन्त्या च याज्ञसेन्या च स विमानशतान्वितः ॥ १४१ ॥ दृष्ट्वा पार्थं पृथुश्रीक-मश्रीकं च पतिं तदा । भानुमत्या मनो जज्ञे, संकीर्णरससंकुलम् ॥ १४२ ॥ समुत्तीर्य विमानेभ्यः, सर्वे नेमुर्युधिष्टिरम् | दुर्योधनस्तथैवासी - दप्रणेन्तुमनाः पुनः ॥ १४३ ॥ | आपादमौलि तस्यासी-व्यस्ता सत्यं कुशीलता । यदस्य नम्रता नाभूद्, धर्मजेऽपि महात्मनि ॥ १४४ ॥ असौ द्राघीयसो बन्धा-दचंक्रमण इत्यतः । उत्पाट्य खेचरैर्नीतो नृपाभ्यर्णे सुयोधनः ॥ १४५ ॥ वेगादागत्य कुन्ती तु, नीवाराक्षततण्डुलैः । आशीःपरम्परापूर्वं तं तदानीमवर्धयत् ॥ १४६ ॥ राज्ञाऽऽश्लिष्यत स प्रीत्या, मत्सरादनमन्नपि । न झौचित्यविधौ सन्तः, परौचित्यव्यपेक्षिणः ॥ १४७ ॥ अजल्पत्तं नृपो वत्स !, किमु तेजस्विनोरपि । राहुवन्दिग्रहो नैव, सूर्याचन्द्रमसोर्भवेत् १ ।। १४८ ॥ नाभविष्यत्तवावश्य-मसावपि पराजयः । यदि द्वैतवनादस्मा-नायास्यामः पुरः पुरा ।। १४९ ।। अनाथाः कुरवो वत्स !, बाढं सीदन्ति संप्रति । तत्तानवायदोवर्य !, गत्वा नय सनाथताम् १ 'कल्लोलै: ' प्रत्यन्तर ० । २ अनमनचित्तः । Jain Educational For Personal & Private Use Only दुर्योधन मोचयित्वा युधिष्ठिर समीप आ नयनम् ॥ ॥१६७॥ Sinelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy