________________
धनुःपारायणं जगौ ॥ १२० ॥ खेचराः शतमन्येऽपि, प्रययुस्तस्य शिष्यताम् । तस्याहमेव शिष्येषु, प्रियोऽस्मि निखिलेध्वपि ॥ १२१ ॥ इदानीं तु बहोः कालाद्, बन्धूनां मिलितोऽर्जुनः । निजामहमयं यामि, तद्विसृष्टश्चिरात् पुरीम् ॥ १२२ ॥ जगाद नारदः स्मित्वा, चित्राङ्गद ! सुयोधनः । त्वद्गुरुं बन्धुभिः साधं, हन्त हन्तुमुपेत्यसौ ॥ १२३ ॥ पश्चादपि गुरुप्रीत्या, विधातासि शुचं यदि । अधुनैव प्रतीकार-स्तचित्राङ्गद ! चिन्त्यताम् ।। १२४ ॥
मुनावेवं वदत्येव, खेचरानुचरो मम । आगत्य कथयामास, क्रोधाग्निसमिधं कथाम् ॥ १२५ ॥ अस्ति क्रीडावनं देव!, यत्ते द्वैतवनान्तिके । तदेत्योपाद्रवहरं, विरोधीव सुयोधनः ॥ १२६ ॥ प्रियाभिरपि ते देव!, लूना यस्य न पल्लवाः । आंकन्दं तेन माकन्द-खण्डश्चक्रे स खण्डशः ॥ १२७ ॥ यदीयकुसुमामोदं, वेद मूर्दैव तावकः । विलूनप्रसवाः प्रापु-चम्पकास्तेऽनुकम्प्यताम् ॥१२८॥ सेचं सेचं त्वया शश्व-ल्लालितं यदपत्यवत् । तदभूत संप्रति प्राप्त-लवनं कदलीवनम् ॥१२९॥ भास्वन्मरकतस्तम्भं, स्फटिकोपलभित्तिकम् । स सौधं तत्तवाध्यास्ते, बलाद्यापाद्य रक्षकान् ॥ १३० ॥ अहं तूत्प्लुत्य नभसा, तवेहाख्यातुमागतः । इतो यदुचितं देव!, त्वं तदाधातुमर्हसि ॥ १३१ ॥ निशम्यामृदृशीं वाचं, नारदस्य च तस्य च । क्रोधाद्दुर्योधनं हन्तु-मुत्सुकोऽहमधाविषम् ॥ १३२ ॥ यदायें तपसः पुत्रे-ऽप्यमुना दुर्मनायितम् । असौ तेनांहसा बद्धः, कोऽहमस्य पुरः पुनः ।।१३३॥ अथोवाच पृथासूनु-श्चित्राङ्गद ! मुखेन मे । जवात् तवादिशत्यार्यो, दुर्योधनविमोचनम् ॥ १३४ ॥ भानुमत्यधुना येन, भर्तृभिक्षाञ्चलं पुरः । उदश्रुधृतवत्यस्ति, तेनार्यः खिद्यतेतमाम् ॥ १३५ ॥ तयोरेतां गिरं
१ क्रोधाग्नौ काष्ठसमाम् । २ मूलपर्यन्तम् । ३ वेत्ति ।
in Educ
a
tional
For Personal & Private Use Only
www.jainelibrary.org