SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ पाण्डवरित्रम् ॥ वर्गः॥ दुर्योधनमोचनार्थमर्जुनस्य गमनम् ।। ।१६६॥ तद्विषोपमम् । नव्यपीयूपगण्डूप-तुल्यं दुर्योधनस्य तु ॥ १०६ ॥ ततः फाल्गुनवर्गीणाः, पश्यन्तो लोनमात्मनः । समं तैः खेचरैर्योद्ध-मारभन्त खरैः शरैः ॥ १०७ ॥ स्वामिनः कीर्तिसर्वस्वं, परिवृत्य सुयोधनम् । शौण्डीरमानिनस्तेऽपि, प्रत्ययुध्यन्त खेचराः॥१०८।। लग्नेऽत्र सन्ययोयुद्धे, कपिकेतुरुदायुधः । अभ्यर्णमभ्यमित्रीणः, प्रेक्षांचक्रे सुयोधनम् ॥१०९॥ | सोऽपि फाल्गुनमालोक्य, दध्यौ ध्यामलिताननः । मृत्युमेवाधुना धातः!, क्रुद्धः किं न करोपि मे ॥ ११० ।। यन्मे बन्दि- ग्रहादस्मा-दर्जुनेन विमोचनम् । हृन्मर्मभेदकृन्नित्यं, मृत्योरप्यधिकं हि तत् ॥१११॥ इति चिन्तापरे तस्मिन् , क्रोधाद्विद्याघरेश्वरः । तस्यैवाम्यर्णमभ्येत्य, स्थितोऽद्राक्षीत् पुरोऽर्जुनम् ।। ११२ ॥ विनिवार्य ततो युद्धं, धार्तराष्ट्रस्य पश्यतः। स गत्वा भूमिलुठनै-रपतत् पार्थपादयोः ॥ ११३ ॥ उत्थाप्यालिङ्गितः स्नेहा-निविडं पाण्डुसूनुना । सोऽत्यन्तविनयी नीचैनिविष्टो विष्टरे पुनः॥ ११४ ॥ चित्राङ्गद ! कथा केय-मिति पृष्टः किरीटिना । कथयामास सोऽप्युच्चै-र्धार्तराष्ट्रस्य शृण्वतः ॥ ११५ ॥ कुमार ! त्वद्विसृष्टोऽहं, स्वां गच्छन्नगरी पुरा । मागें नारदमद्राक्षं, मृर्नाऽस्पाक्षं च तत्क्रमौ ॥११६॥ सोऽथ मां मुदितोऽवादी-चित्राङ्गद ! कथं चिरात् । दृष्टोऽस्यतीव सोत्कण्ठं, मनो मे संगमाय ते ॥ ११७ ।।अजल्पिषमृषीन्द्रं त-मिन्द्रकीलशिलोच्चये । आदिनाथनमस्याएं, गतोऽस्मि भगवन् ! पुरा ।। ११८ ॥ कीतिकोलाहलं तत्र, किरातविजयोर्जितम् । पार्थस्याकर्ण्य यातोऽस्मि, तं द्रष्टुं रथनूपुरम् ॥ ११९ ॥ दृष्टे तस्मिन्निजान् बन्धून् , व्यस्मार्षमतिविस्मितः। स मे तत्र गुरुर्भूत्वा, १ चौर्यधनम् । २ शत्रुसंमुखगन्ता । ३ श्याममुखः । ॥१६६॥ Jan Educa For Personal Private Use Only I w.sainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy