SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ 7 जवाद्वत्स, विमोचय सुयोधनम् ||१०|| अथ भीमोऽभ्यधादार्य !, किं नः पश्यसि विप्रियम् ? । दैवेनापि कृतं येन, सहसे नास्मदीप्सितम् १ ॥ ९१ ॥ गरदान - जलक्षेप - द्यूत - केशग्रहादयः । अपकारा रिपोरस्य, कथमार्यस्य विस्मृताः १ ॥ ९२ ॥ ऊचे धर्मसुतो वत्स !, बान्धवस्य कनीयसः । तस्याप्यापत्प्रतीकारो मय्येवायततेतमाम् || २३ || निजमापगतं सन्तो, नोपेक्षन्ते कदाचन । भानुमान् विपदं हन्ति, पङ्कजानां प्रगे प्रगे ॥ ९४ ॥ गोत्रं त्रातुमहोरात्रं, कुलीनानामुपक्रमः । न मुनिभिः पूर्वै-रकुलीनो हि गोत्रहा ।। ९५ ।। अपि दुर्वृत्तमात्मीयं, त्रायन्ते भुवनोन्नताः । अप्युष्णं न हि पुष्णन्ति, पयोदाः किमिरंमंदम् ।। ९६ ।। यद्यप्यालोकयत्यस्तं, पूर्णोऽसौ प्रतिपूर्णिमम् । तथाप्युपकरोत्येव, चन्द्रं दर्शगतं रविः ॥ ९७ ॥ शतं वयं पञ्च, यावद्वैरं परस्परम् । परैस्तु परिभूता हि वयं पश्चोत्तरं शतम् ।। ९८ ।। तद्गच्छत्वर्जुनो बन्धुं विमोचयतु बन्धनात् । ईम्बन्धूपकाराय, भूयोऽप्यवसरः कुतः १ ॥ ९९ ॥ आदेशमेनमासाद्य, ज्यायसस्तस्थिवान् रहः । ततो विद्यामुखेनेन्द्रं पार्थः प्रार्थितवांश्चमूम् ॥ १०० ॥ इन्द्रेण प्रहितस्तूर्णं, शौण्डीरभट संकटाम् । दधद्वैमानिकीं सेना -माययौ चन्द्रशेखरः ॥ १०१ ॥ ऐन्द्रं विमानमारूढः खेचरेन्द्रैरनुद्भुतः । आराध्यवर्गमानम्य, प्रतस्थे कपिकेतनः ॥ १०२ ॥ अलंकृतानि संनद्वै - भटैर्गच्छन्ति दूरतः । पुरो विमानवृन्दानि ददृशुः पार्थसैनिकाः ॥ १०३ ॥ तन्मध्ये सानुजं बद्धं, संवर्मित चमूवृतम् । दृष्ट्वा दुर्योधनं जिष्णु - वेगात् तानन्वघावत ॥ १०४ ॥ ते पार्थाग्रेसरैरुक्ता, रे रे ! तिष्ठत तिष्ठत । बन्धुर्दुर्योधनस्याय - मागादनुपदी हि वः ॥ १०५ ॥ खेचराणामभूत् तेषां वचनं १ इरंमदं - वडवानलम् । २ अमावास्यास्थितम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy