________________
विपाण्डव-1 रित्रम् ॥ प्रमः९॥
दुर्योधन
बन्धो विद्याधरकृतः॥
॥१६५॥
समर्प्य धृतराष्ट्रस्य, राज्यं वेगादिहाययुः ॥ ७५ ।। दुःखादधोमुखीमुच्चै, रुदन्तीं पादयोः पुरः। गाङ्गेयो मां बृहत्तातः, सगद्गदमभाषत ॥७६॥ वत्से ! मा स्म रुदः सत्य-मीदृशी भवितव्यता। मया निषिद्धोऽप्यागच्छत् , पतिस्तेऽत्र किमन्यथा ? ॥ ७७ ॥ इदानीमपि नान्येन, पतिस्ते मोचयिष्यते । एकं गत्वा प्रपद्यस्व, शरणं तपसः सुतम् ।। ७८ ।। स त्वद्भकृतांश्चित्ते, नापकारान् करिष्यति । विशेषेणोपकर्तारः, साधवो ह्यपकर्तरि ॥ ७९ ॥ इदं गुरुवचः कृत्वा, हृदि तूणमिहागमम् । संप्रति स्वां पुरीं सोऽपि, यियासुः खेचरेश्वरः ।। ८०॥ इतो यदुचितं देव !, तद्विधेहि धियांनिधे!। कुलव्योममणे !
नूनं, तेजोहानिरियं हि ते ॥ ८१ ॥ | श्रुत्वा मन्युमयीमेना, भीमो भानुमतीगिरम् । अपवार्य प्रियां मन्द-मवादीत फुल्ललोचनः ।।८२॥ देवि! दिष्ट्या:धुनैवेदं, त्वत्केशग्रहसंभवम् । निर्यातयितुमारेभे, वैरं देवेन पश्यं नः ॥ ८३ ।। सुयोधनवधौत्सुक्य-मार्येणात्माज्ञया पुरा । विनिवारितमस्माक-मार्यादेशो हि मूर्धनि ॥८४॥ आर्योऽधुनाऽप्युदास्ते चेत् , तत्र शत्रौ विपद्गते । किं ततः स्यान्न नः श्रेयो ?, न ह्येवं तु करिष्यति ।। ८५ ॥ येन स्नेहातिरेकेण, वने ऽस्मिन्नयमाययौ । नार्येण स्मयते सोऽपि, प्रियंवदनिवेदितः ॥८६॥ अथ भानुमतीमाह, स्नेहार्द्रस्तपसः सुतः । मद्वन्धोरपि हा वत्से !, कीदृग्व्यसनमाययौ ? ॥ ८७ ॥ तमहं मोचयिष्यामि, भ्रातरं नात्र संशयः । बद्धस्तु यन्मदीयोऽपि, बान्धवस्तद्गुनोति माम् ॥ ८८॥ इत्याश्वास्य स्नुपां स्नेहा-द्रत्वैकान्ते महीपतिः।। भीमस्य याज्ञसेन्याश्च, पश्यतोः पार्थमभ्यधात् ॥ ८९ ॥ बद्धा केनापि पापेन, गृहीतं व्योमचारिणा । गच्छ वत्स !
१ शोकमयीम् । २ प्रतिकर्तुम् । ३ 'पश्यत' प्रतित्रयः ।
॥१६५||
in EU
For Personal & Private Use Only
www.jainelibrary.org