SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ 5 पलायांचक्रिरे क्षणात् ।। ५९ ।। अथायू सुखग्रास - मेकाकिनमरिं पुरः । अधावत भवद्वन्धुः, सबन्धुर्विधृतायुधः ॥ ६० ॥ काण्डीरः सोऽतिशौण्डीरः क्रुद्धः क्रोर्ड इव श्वभिः । कृत्वा कुण्डलनां रुद्धः सर्वैर्व्यावृत्य खेचरैः ॥ ६१ ॥ युध्यमानः स भूयोभि-स्तैः संभूय नभश्वरैः । खेदयित्वा क्रमाद्वद्धा, गृहीतः सहितोऽनुजैः ।। ६२ ।। निविडैर्निगडैः पूर्व, दृढं संयम्य पादयोः । एकैव खेचरैस्तेषां चिक्षिपे शृङ्खला गले || ६३ || पुरस्कृत्य पदातीन् वः शतमप्यनुजन्मनः । तदुपेत्य निजं सौध - मध्यष्ठात् खेचरेश्वरः || ६४ || सर्वां स श्रियमादत्त, राजवर्गस्य पश्यतः । युष्मद्वन्धंश्व धत्ते स्म, दुःसहे तपनात ॥ ६५ ॥ पत्युश्च देवराणां च दृष्ट्वाऽहं तादृशीं दशाम् । ततोऽत्युच्चैः कृताक्रन्दा, रणक्षेत्रमुपागमम् || ६६ || निरौजस्कान्निजांस्तत्र, मेदिनीशानवादिषम् । जयद्रथ ! रथः कुत्र !, बृहद्बल ! बलं क्व ते १ ।। ६७ ॥ दृष्टा कला कलिङ्गेश !, लज्जालेशोऽपि नास्ति वः । यद्धद्धा नीयते स्वामी, पुरतः पश्यतामसौ ॥ ६८ ॥ इत्युक्तास्तेऽप्यधः कृत्वा, वक्त्रं पश्चान्निवृत्य च । दूरे जगृहुरावासा - नाश्रित्य विषमां महीम् ।। ६९ ।। नित्यं विमानमारोप्य, दीनान्निगडितांस्तथा । खेचराः कटकस्यास्य, दर्शयन्ति तवानुजान् || ७० || अजल्पंश्चैष वः स्वामी, धृतोऽस्मत्स्वामिना हठात् । अमुं स मोचयत्वाशु, सन्ति यस्योर्जिता भुजाः ॥ ७१ ॥ तेऽपि वो बान्धवा बाष्प - जलार्द्रा चिक्षिपुर्मुहुः । स्वराजन्यजने मोक्ष प्रार्थनापिशुनां दृशम् ।। ७२ ।। राजानस्तेऽप्यजायन्त, लज्जयाऽवनताननाः । विवराऽऽकाङ्क्षिणोऽभीक्ष्णं, वीक्षमाणा इव क्षितिम् ||७३ || प्रभोर्बन्दिग्रहात्तस्मात् तस्माच्च स्वपराजयात् । कर्णो जीवन्मृतावस्थ - मात्मानं मन्यतेऽधुना ॥ ७४ ॥ तमुदन्तमथ ज्ञात्वा भीष्म-द्रोण-कृपाः स्वयम् । १ ( काण्डीरो बाणवान् । २ कोड: शूकरः । ) ३ वेष्टनम् । For Personal & Private Use Only Jain Education'erational w.jainvelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy