SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ पाण्डव चरित्रम् ॥ सर्गः ९ ॥ ॥१६४॥ 4 मर्जुनम् । इदानीं तस्य ते कर्ण !, दिष्ट्या द्रष्टास्मि विक्रमम् ॥ ४४ ॥ इत्युक्तस्तेन राधेयः, सुविधेयधनुः क्रमः । मदीयं विक्रमं पश्येत्युक्त्वा चिक्षेप सायकान् ।। ४५ ।। तस्याक्षामभुजस्थान - स्तादृशीं लघुहस्तताम् । सोऽपि विद्याधराधीशः, स्मेरचक्षुरखैक्षत ॥ ४६ ॥ निजमादान-संधाना कृष्टि-विच्छेदगोचरम् । अनघं लाघवं सोऽपि, राधासुनोरदर्शयत् ॥ ४७ ॥ तयोर्बभूव सुभट - स्पृहणीयो महारण: । तस्थौ माध्यस्थ्यमास्थाय, जयश्रीरुभयोरपि ॥ ४८ ॥ अथ विद्याधरेन्द्रेण, बाणैर्मर्मणि ताडितः । पलायनकलां नव्यां, राधेयोऽध्यापितस्तदा ।। ४९ ॥ कर्णे नष्टे भवन्ति स्म, खेचरा जितकाशिनः । सर्वोऽपि सुमनायेत, निर्जिते दुर्जये रौ ॥ ५० ॥ अथ क्रुद्धो भवद्वन्धु-र्बन्धुभिर्निखिलैः सह । वीरंमन्यमरिं योद्ध-महौकत समातुलः ॥ ५१ ॥ विलोक्य मूलसंनाहसहितं तं हसन्मुखः । अखर्वगर्वगरिमा वादीद्विद्याधरेश्वरः ।। ५२ ।। सुयोधन ! तवायं किं, दोर्मदः ? श्रीमदोऽथवा १ । यदस्मदीयमुद्यानं, सौधं चापि विलुप्यते ।। ५३ ।। असौ मदंगदः कोऽपि निर्निदानोऽस्ति यस्तव । तच्चिकित्सां विधास्यामि, निजायुधमहौषधैः || ५४ ॥ अथाभ्यधाद्भवन्धु रहो विद्याधरनुव ! । उपालम्भैरलं यस्य, शक्तिस्तस्य जगत्रयी ॥ ५५ ॥ आत्तैः: सौधादिभिर्बाह्यैः किमेभिर्वस्तुभिर्मम । जीवितव्यमपि क्षिप्रं तवाऽऽदास्ये सह श्रिया ॥ ५६ ॥ इति जल्पन्नसौ शत्रुमाजघान शितैः शरैः । प्रतिपक्षो हि नोपेक्ष्य, इत्येषा वः कुलस्थितिः ॥ ५७ ॥ सर्वैः सर्वात्मना शस्त्रैः सोऽप्यरातिरयुध्यत । द्विषा विक्रमिणाऽऽक्रान्तः, किं नु कोऽपि प्रमाद्यति १ ।। ५८ ।। शराघातैर्भवद्वन्धो- रन्धंभावुकविक्रमाः । सममेवारिवर्गीणाः, १ मूलं - मुख्यम् । २ गर्वव्याधिः । ३ कारणरहितः । Jain Education Bonal For Personal & Private Use Only विद्याधरैः सह दुर्यो धनस्य युद्धम् ॥ ॥१६४॥ ainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy