SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ प्रक्षरान्विताः ।। २९ ।। उन्मुखीभृय नः शौर्य-त्रुटत्संनाहसंधयः । विद्याधरचमूमूचु-ग्रानीकभटास्ततः ॥३०॥ अरे! विद्याधराः! क्रीडन्, स्वच्छन्दं प्रभुरस्ति नः। अस्थालं केलिभङ्गेन, वयं कण्डूहरा हि वः ॥ ३१ ॥ इत्यालप्य निशाताः, शरैरूर्ध्वमुखः समम् । भटास्ते प्रथयामासु-रातिथ्यं परिपन्थिनाम् ॥ ३२ ॥ तदन्तिकमगत्वैव, तैस्तदीयैः पतत्रिभिः। व्या वृत्तमफलैरेव, सममस्मन्मनोरथैः ॥ ३३ ॥ शरासारैस्ततस्तेषां, घनानां व्योमचारिणाम् । नामाप्यस्मदनीकस्य, पङ्क| स्येवानशत् तदा ॥ ३४ ॥ सोमदत्त-कलिङ्गेश-भगदत्त-जयद्रथाः। विशल्य-भूरिश्रवसौ, चित्रसेन-बृहद्दलौ ॥ ३५॥ सुशर्मा कृतवर्मा च, राजानोऽन्येऽपि भूरिशः । ततो डुढौकिरे योg, स्वयं सह नभश्चरैः ।।३६॥ युग्मम् ॥ आयुधैः शक्ति-नाराचशल्य-शूल-शरादिभिः । प्रजहः पाणिमुक्तैश्च, यन्त्रमुक्तैश्च ते समम् ।। ३७ ।। अथ तेषां विमानास्ते, भिन्ना अपि तदाशुगैः। सरोमाचा इव बभु-जयलक्ष्मीकटाक्षिताः ॥ ३८ ॥ नैतन्याय्यमहो युद्धं, भूमिस्थगगनस्थयोः। व्योमचारिचमूनाथः, स्वान् भटानित्यवोचत ॥ ३९ ॥ संहृत्याथ विमानानि, सेनया चतुरङ्गया । बभूव सोऽभ्यमित्रीणः, पुरंदर इवावनौ ॥ ४०॥ संमोहं मोहनास्त्रेण, लम्भयामास नो नृपान् । अबुध्यन्त न तेऽस्वाणि, पाणिभ्यः पतितान्यपि ॥४१॥ अभूत् कर्णः समाकर्ण्य, राजन्यानां पराजयम् । दर्पोन्मदिष्णुदोर्दण्डः, सानीकः समरोन्मुखः ॥ ४२ ॥ अथाभ्यधत्त राधेयं, मुदा विद्याधरेश्वरः । अद्य त्वयि कृतोद्योगे, पूर्ण मे कर्ण! कौतुकम् ॥ ४३ ॥ चण्डगाण्डीवधन्वानं, स्पर्धसे यस्त १ मेघपक्षे जलवृष्टिभिः । २ शत्रुसंमुखगामी-वीर इत्यर्थः । Main Education For Personal & Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy