SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ 234 गाङ्गेयस्य पाण्डवरित्रम्॥ १५॥ वर्ग मनम् ॥ २७५॥ शुक्लं ध्यायनथ ध्यानं, सुसमाहितमानसः । सद्यो विदन्त्रिवाऽऽत्मानं, संसारार्णवपारगम् ।। १२४ ।। आनयनात्मतादात्म्य, पश्चापि परमेष्ठिनः । मासिकानशनो मृत्वा, गाङ्गेयः प्रापदच्युतम् ॥ १२५ ॥ सुरैर्नभश्वरैः पाण्डु-नन्दनैरपि साश्रुभिः। अकारि देहसंस्कार-स्तस्य गोशीर्यचन्दनैः ॥ १२६ ॥ पाण्डवानथ संबोध्य, श्रीभद्रगुप्तसूरयः । अन्यत्र सूत्रयामासु-विहारं होरिसंयमाः ।। १२७ ।। गायन्तश्च सरोमाञ्चं, मुनेस्तस्य गुणान्मुदा । खेचरा-मर-गन्धर्वा, ययुः सर्वे यथागतम् ॥ १२८ ।। तद्ब्रह्मव्रतमद्भुतं निरूपमां तां प्राणिवर्गे कृपां तच्छौण्डीर्यमनन्यतुल्यमतुलां सर्वत्र तामाप्तताम् । गाङ्गेयस्य मुनेः परैरसुलभां तां चापि निःसङ्गतां व्याख्यान्तः पथि पाण्डवा अपि ततो जग्मुः पुरं हास्तिनम् ॥१२९ ।। इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये गाङ्गेयस्वर्गमनवर्णनो नाम पञ्चदशः सर्गः ॥१५॥ १ चक्रुः । २ मनोहरसंयमाः शुद्धचारित्रवन्त इत्यऽर्थः । ३ कथयन्तः । ॥२७५॥ Education international For Personal & Private Use Only
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy