SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ाण्डवत्रम् ॥ : १५॥ १७४॥ 232 सूत्रतोऽप्यर्थतोऽपि च । परावर्त्य तदेकाग्रः, पुनरुज्वलतां नये ॥ ९३ ॥ दुर्वाक्यादपकाराद्वा, यद्वा द्रव्यापहारतः । मो या लम्भितः पीडां स मे क्षाम्यतु संप्रति ॥ ९४ ॥ देवत्वे ये मया देवा, नारकत्वे च नारकाः । तिर्यक्त्वेऽपि च तियञ्ची, मानुषत्वे च मानुषाः || ९५ ।। स्थापयांचक्रिरे दुःखे, सर्वे क्षाम्यन्तु ते मयि । उपेतः समतां सर्व, तेषामहमपि क्षमे ॥ ९६ ॥ ( युग्मम् ) लक्ष्मी रूपं प्रियैर्योगो, जीवितं यौवनं बलम् । वातोद्धृताब्धिकल्लोल - चञ्चलं सकलं खलु ॥ ९७ ॥ रोग-मृत्युजरा- जन्म - दुःस्थानामिह देहिनाम् । धर्ममेकं विना जैनं, न कोऽपि शरणं भवेत् ॥ ९८ ॥ जन्तवः स्वजनाः सर्वे जाताः परजनाश्च ये । विवेकी तेषु कुर्वीत, को ममत्वं मनागपि १ ।। ९९ ।। एकस्यैव भवे जन्म, स्यादेकस्यैव पञ्चता । एकस्यैवाङ्गभाजः स्यु - दुःखानि च सुखानि च ॥ १०० ॥ त्रपुरन्यदिदं जीवा - दन्यद्धान्यधनादिकम् । जीवोऽन्यः पुनरेतेभ्यः कथं मुझन्ति बालिशाः १ ॥ १०१ ॥ वसा शोणित-विण्मूत्र- यकृन्मांसा-स्थिसंभृते । अशुचिप्रचिते देहे, को हि मुह्यति कोविदः ? ॥ १०२ ॥ अवक्रयकुटीतुल्यं, यलाल्लालितपालितम् । अचिरादपि मोक्तव्यं, विनश्वरमिदं वपुः ॥ १०३ ॥ धीरस्य कातरस्यापि मृत्युरेत्येव देहिनः । तन्त्रियेत तथा धीमा - न म्रियेत यथा पुनः ॥ १०४ ॥ अर्हन्तो निखिलाः सिद्धाः साधवः स्वगुणोभताः । अर्हद्धर्मश्च शरणं, भवन्त्वशरणस्य मे ।। १०५ ॥ साधवो बान्धवाः सर्वे धर्मः स्वामी गुरुः पिता । नात्मीयं परं किंचित् कर्मबन्धनिबन्धनम् || १०६ || सद्भ्योऽथ भूत- भाविभ्य-स्तरण्डेभ्यो भवार्णवे । शाश्वतेभ्यश्च मे शश्वदर्ह नमो नमः ॥ १०७ ॥ कर्मकक्षे क्षणाद्येषां ध्यानेन दहनायितम् । तेभ्यो भवतु सिद्धेभ्य - स्त्रिविधेन नमो नमः ।। १०८ ।। पश्चधाऽऽचारधारिभ्यो, भानुभ्यः शासनेऽर्हताम् । कृतभव्याब्जबोधेम्य, आचार्येभ्यो नमो नमः ॥ १०९ ॥ एत्या Jain Education International For Personal & Private Use Only गाङ्गेयमुनिकृता ऽन्त्या राधना ॥ ॥२७४॥ ww.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy