SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ण्डव त्रिम् ॥ | १५|| १७३॥ 230 षोढा चाभ्यन्तरं बुधैः । कर्ममर्मच्छिदा कर्मच्छेकमेकं यदुच्यते ॥ ६१ ॥ इहापि स्यान्महीयस्यै, तपोऽभीष्टार्थसिद्धये । स्वयमेव त्वया दृष्टो दृष्टान्तोऽत्र जयद्रथः ॥ ६२ ॥ द्रौपदीहरणे होष, तदा प्राप्य पराभवम् । दुष्टः कष्टं तपस्तेपे, युष्मद्वधविधित्सया ।। ६३ ।। तुष्टा च तपसा तेन, काचिदभ्येत्य देवता । वरं वत्स ! वृणीष्वेति, निजगाद जयद्रथम् ॥ ६४ ॥ सोऽथ मे दुस्तपस्यास्य, यद्यस्ति तपसः फलम् । ततो वधाय पाण्डूनां स्यामित्येतामयाचत ।। ६५ ॥ साऽप्यवोचदवाच्यैव वाचोयुक्तिरियं त्वया । संविधातुं वर्ध वत्स !, नैषामाखण्डलोऽप्यलम् || ६६ || आयुश्वरमदेहाना - मेषां हि निरुपक्रमम् । यदेते व्रतमादाय, तीर्थे सेत्स्यन्ति नेमिनः ।। ६७ ।। तदेतेषां वधे मा म, कृथा मिथ्या मनोरथान् । केवलं दुष्करस्यैत- द्वात्रिं ते तपसः फलम् ॥ ६८ ॥ यद्भवान् पाण्डवानेतान्, कुरुव्यूहे विविक्षतः । दिनमेकं रणच्छेको, लीलया स्खलयिष्यति ।। ६९ ।। इति तस्मै समाख्याय, देवता सा तिरोदधे । कृतं युष्मासु तेनापि, यत्किचिद्वित्थ तत् स्वयम् ॥ ७० ॥ तदेतत्तव कौन्तेय !, तपोमाहात्म्यमीरितम् । भावोऽधुना सर्वधर्म-धुर्यस्तुर्यो निशम्यताम् ॥ ७१ ॥ सर्वदैवातिदुर्लम्भो, भावः सिद्धरसोपमः । दानादयोऽपि जायन्ते येन कल्याणमूर्तयः ।। ७२ ।। एतस्मादेव कौन्तेय !, सच्चारित्रपचेलिमान् । मोक्षोऽपि कर्मनिर्मोक्ष-लक्षणस्तत्क्षणाद्भवेत् ॥ ७३ ॥ चारित्रावाप्तिसंपन्न - तत्त्वज्ञानेन ते मया । पुमर्थावुत्तमावेतौ, धर्ममोक्षावुदाहृतौ ॥ ७४ ॥ कौन्तेय ! विधिवन्नित्यमुपासीथास्त्वमप्यम् । समग्रसमरारम्भ - पाप्मनो येन मुच्यसे ।। ७५ ।। एवमाकर्ण्य पर्जन्य-गर्जिबन्मुनिदेशनाम् । शिखण्डीव कृतानन्द - ताण्डवोऽभूयुधिष्ठिरः ॥ ७६ ॥ अभ्यधाच्च प्रभो ! साधु, Jain Edemational For Personal & Private Use Only गाङ्गेय सुनिना कृता देशना युधिष्ठि रस्य ॥ ॥ २७३॥ Tww.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy