________________
गाय
पाण्डवः परित्रम् ॥ र्गः१५॥
।२७२॥
प्राथना॥
228 | तत्पथप्रस्थितस्तात !, सांप्रतं पारलौकिके। प्रसीदान्त्योपदेशेन, केनाप्यनुगृहाण माम् ।। २९ ॥ येनास्मान्नरकक्रोड-बाम- प्रतिभुवोऽधुना । मुख्येयं बान्धवध्वंस-निदानात् खलु पाप्मनः ॥ ३०॥ पुराऽप्यदायि यो महां, राजधमोचितस्त्वया। उपदेशः स हृद्यस्ति, वास्तव्योऽद्यापि तद्यथा ॥ ३१ ॥ सर्वेनूपगुणैर्युक्ताः, सुवृत्ताः प्राज्यवंशजाः। भृमेभूषणतां यान्ति, हारा इब नरेश्वराः ॥३२॥ पार्थिवानामलंकारः, प्रजानामेव पालनम् । किरीट-कटकोष्णीषै- ष्यन्ते केवलं नटाः ॥ ३३ ॥ विशेषज्ञः कृतज्ञश्च, गुरौ देवे च भक्तिमान् । अप्रतार्यश्च धूर्तानां, भुवं भुङ्क्तेऽब्धिमेखलाम् ॥ ३४ ॥ सेवा गुरौ तदादिष्टे, ग्रहः पुरुषसंग्रहः । शौर्य धर्मश्च पञ्चामी, राज्यलक्ष्मीलताम्बुदाः ॥ ३५ ॥ आपन्नस्यातिहरणं, शरणागतरक्षणम् । त्यागः प्रजानुरागश्च, श्रीतरीनांगरा अमी ॥ ३६॥ दानेन क्षमया शक्त्या, गणं राजाऽनुपालयेत् । गणकोपः क्षयो राज्ञां, विजयो गणसंग्रहः ॥ ३७ ।। शपन्ते कृपणाऽऽक्रन्द-च्छमना क्षितिपं श्रियः । आददीत ततो लोक-पीडयार्थ न पार्थिवः ।। ३८ ॥ आशां न विफलां कुर्या-नृपः कल्पद्रुमोऽर्थिनाम् । आशापाशममं नास्ति, हृदयाऽऽकर्षणं नृणाम् ॥ ३९ ॥ भोगान्न च न च त्यागा-न चाधेन च रोगतः। प्रजासंतापशापातु, क्षीयन्ते क्षितिपश्रियः॥४०॥क्ष्माभुजां क्षिप्यते लक्ष्मी-धृतमधुरवादिभिः। अतिप्रवर्धितै त्यै-वल्लभैश्च निरङ्कुशैः।। ४१ ।। समाविषयग्राम-सर्वस्वस्वादलालसैः । इन्द्रियरित्र कायस्थैः, कायस्थेः, क्षपिता नृपाः ॥४२॥ चण्डदण्डमगोप्तारं, क्षितिपं नेच्छति शितिः । निष्कलं कलहकर, लुब्धं पतिमिवाङ्गना ॥४३॥ प्रागित्युपादिशः सम्य-ग्यथा मे हृदयंगमम् । अधुनाऽपि प्रभो ! पथ्यं, तथोपदिश किंचन ।। ४४ ॥
१ 'तथ्य ' प्रत्यन्तर० । २ राज्याधिकारिविशेषैः ।
॥२७॥
Jain Education Interational
For Personal & Private Use Only
Nainelibrary.org